Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 245
________________ २१२ भिक्षुन्यायकर्णिका (ङ) विरोधिपूर्व चरोपलब्धि: - यत्र किमपि वस्तु प्रतिषिध्यते तत्र तद्विरुद्धस्य यदि उपलब्धिर्भवति तदा वक्तुं शक्यत एव यदत्र विरोधिपूर्वचरोपलब्धिरिति । यथा नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमात् । अत्र भविष्यत् पुष्यतारोदयः प्रतिषेध्यः अस्ति, तद्विरुद्ध: मृगशीर्षोदय:, तस्य पूर्वचर: रोहिण्युदयः, तस्योपलब्धिरत्र वर्तत इति विरुद्धपूर्वचरोपलब्धिः । (च) विरोध्युत्तरचरोपलब्धि: - यत्र किमपि वस्तु तत्त्वं वा प्रतिषिध्यते तत्र यदि तद्विरुद्धः उत्तरचरः उदेति तदा तत्र विरोध्युत्तरचरोपलब्धिरिति कथ्यते । यथा - नोद्गात् मुहूर्त्तात् पूर्वं मृगशिरः पूर्वाफाल्गुन्युदयात् अत्र प्रतिषेध्यः मृगशीर्षोदयः, तद् विरुद्धः उत्तरचरश्च पूर्वफाल्गुन्युदयः, तस्योपलब्धिर्भवतीति हेतुरयं प्रतिषेध्यविरोधी उत्तरचरश्चेति भवति समन्वयः । (छ) विरोधिसह चरोपलब्धि :- यत्र किमपि तथ्यं विरुध्यते निषिध्यते वा तत्र तद् विरोधिनः सहचरस्योपलब्धिर्भवति चेत् तदा तत्र विरुद्धसहचरोपलब्धिरिति वक्तुं शक्यते । यथा - " नास्त्यस्य मिथ्याज्ञानम् सम्यग्दर्शनात्' अत्र मिथ्याज्ञानं निषिध्यते । तद्विरोधि अस्ति सम्यग्ज्ञानम् तस्य सहचरोऽस्ति सम्यक्दर्शनम्तस्य अत्र उपलब्धिर्भवतीति विरोधिसहचरोपलब्धिरत्र स्पष्टैव । Jain Education International 11 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286