________________
तृतीयो विभाग:
स्वार्थानुमान के दो ही अंग होते. हैं- पक्ष और साधन ।
परार्थानुमान पंचावयव होता है- पक्ष, साधन, दृष्टान्त, उपनय और निगमन। न्या. प्र.- वचनात्मके परार्थानुमाने न केवलं पक्षस्य हेतोश्चैव प्रयोगोऽपेक्षितः अपि तु अत्र दृष्टान्तोपनयनिगमनान्यपि प्रयुज्यन्ते। अनया रीत्या अत्र पञ्चावयववाक्यस्य प्रयोगो भवति। यत्रानुमानेन परोऽपि बोधनीयो भवति तदनुमानं वचनात्मकं भवति । तदेव परार्थानुमानमित्युच्यते । स्वार्थानुमानं तु ज्ञानात्मकं भवति। अत्र तु पक्ष: साधनञ्चेति द्वे एव अङ्गे। परार्थानुमाने तु पञ्चावयवमिति स्पष्टीकृतमुपरि विस्तरेण । सम्प्रति परार्थानुमानाङ्गभूतं दृष्टान्तं लक्षयति
21. व्याप्तिप्रतीतिप्रदेशो दृष्टान्तः ।
दृष्टान्तवचनमुदाहरणम्। व्याप्ति के प्रतीतिस्थल को दृष्टान्त कहा जाता है। दृष्टान्तवचन का नाम उदाहरण है। न्या. प्र.- व्याप्तेः प्रतीतिर्यस्मिन् स्थले भवति तत् स्थलं दृष्टान्त इति कथ्यते। यथा यो यो धूमवान् स सोऽग्निमान् इति व्याप्तेः प्रतीतिर्महानसे भवति अत: महानसं दृष्टान्तोऽस्ति। दृष्टान्तस्य वचनं कथनमुदाहरणं भवति । यथोक्तं महानसमिति उदाहरणं दृष्टान्तो वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org