Book Title: Bharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Author(s): Nemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
Publisher: Prachya Shraman Bharati

View full book text
Previous | Next

Page 445
________________ संस्कृत-साहित्ये त्रिभुजगणितम् संस्कृत-साहित्ये विविध ज्ञान-विज्ञानानां भाण्डारं प्राप्यते । आयुर्वेद - गणित - ज्योतिषमन्त्र-तन्त्रादिविविधविषयाः संस्कृतवाङ्मये निबद्धाः सन्ति । वैदिकवाङ्मये ज्योतिषगणितयोरनेकसूत्राणि लभ्यन्ते । यज्ञीयकुण्डानां गणित हेतवे तथा तस्कुण्डानां शुद्धरूपेण निर्माणाय त्रिभुजगणितोपयोगो वैदिककालेऽपि क्रियमाण आसीत् । यज्ञविधि - सम्पन्नतायै चतुष्कोणत्रिकोण-वृत्ताकार - षड्भुजरूप - बहुभुज रूपाद्यनेकप्रकाराणि कुण्डानि निर्मीयन्ते स्म । एतेषां कुण्डानां क्षेत्रफलनिष्कासनाय त्रिभुजगणितस्याविष्कारो विहितः । यद्यपि ऋग्वेदे त्रिभुजगणितस्य स्पष्टनिर्देशो नास्ति, परन्तु पृथ्वी सूर्य भुवनानां कथनक्रमे त्रिभुजसमावेशी जायते । पृथ्व्याः दशपटलानामुल्लेखत्वात् भुजशब्दोऽत्रोपलक्षणत्वेन क्षेत्रभुजानां सूचको विद्यते । एवमेव सकलभुवनाधारस्य सूर्यस्य कथनं कुर्वन् 'त्रिनाभि 'शब्दः त्रिभुजस्यापि सूचकोऽस्ति । मन्त्रो निम्न प्रकारोऽस्ति - यदिन्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनंतकृष्ट्यः । अत्राह ते मघवन् विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥ १ X X X सप्त युजंति रथमेकचक्रमेको अश्वो वहति सप्तनाम ॥ त्रिनाभिचक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ॥ २ ऋग्वेदे सूर्यगत्यनुसारं राशिचक्रस्य द्वादशभागेषु विभाजनेन 'विषुवसम्पातस्य वार्षिकगतिसदृशं पृथ्व्याः तुलनायां सूर्यचन्द्रमसोः सापेक्षाकारस्य, सूर्यस्य परममन्दफलस्य मानादेश्च परिज्ञानं त्रिभुजगणितं बिना सम्भवं नास्ति । अतएव ग्रहाणां भोगांश निष्कासनाय त्रिभुज - गणितस्य ज्ञानप्रचारो वैदिककालेऽप्यभविष्यत् । तैत्तिरीय ब्राह्मणे तैत्तिरीयसंहितायाञ्च य' ज्योतिषचर्चाधिगम्यते, तस्यां क्षेत्र गणितमपि सम्मिलितमस्ति । शुल्वसूत्रे त्रिभुजगणितस्यानेक प्रकाराः दृश्यन्ते । स्वतन्त्ररूपेण त्रिभुजगणितस्यारम्भः प्रथमार्यभट्टाज्जायते । आर्यभट्टेने प्रथमेन ग्रहाणां बिम्बीयकरणानां ज्ञानमवाप्य बिम्बग्रहयोरानयनविधिरङ्कितः । अतो ग्रहणणितेन सह त्रिभुज - गणितस्य कथनं कृतं वर्त्तते । द्वितीयार्यभट्टेन त्रिभुजविवेचनं स्वतन्त्ररूपेण कुर्वता लिखितम् - त्रिभुजस्य फल शरीरं समदलकोटी भुजार्धसंवर्गः । ऊर्ध्वभुजा तत्संवर्गाधं स घनः श्ररिति ॥ ३ " समदलकारिणी या कोटिः त्रिभुजशीर्षादाधारोपरि लम्ब इत्यर्थः । तस्याः कोटे: अर्थात् लम्बस्य भुजार्धस्य आधारार्घस्य यः संवर्ग गुणनं तत् त्रिभुजस्य त्रिभुजरूपक्षेत्रस्य १. ऋग्वेद : सं० १ ५२।११ २. वही, १।१६४।१४ ३. आर्यभटीयम् बिहार रिसर्च सोसाइटी, पटना, श्लोक ६, पृ० १५

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478