Book Title: Bharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Author(s): Nemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
Publisher: Prachya Shraman Bharati

View full book text
Previous | Next

Page 448
________________ ज्योतिष एवं गणित श्रीपतेः पाटीगणितस्य रचनाशैली अत्यन्तसरलोत्तमा च वर्तते। ग्रहभेदप्रक्रियाद्वारा प्रहगणितस्य ज्ञानमवाप्य सिद्धान्तशेखर' नामक ग्रन्थोऽपि लिखितोऽनेन । प्रन्येऽस्मिन् ग्रहानयनप्रकरणे त्रिभुजस्य विभिन्नप्रकाराणां गणितानां समावेशोऽस्ति । श्रीपत्यनन्तरं श्रीधराचार्यस्य नामायाति । अनेन 'गणितसार' ग्रन्थः प्रणीतः । यस्मिन् क्षेत्रव्यवहार-खातव्यवहार-चितिव्यवहार-काष्ठव्यवहार-राशिव्यवहार-छायाव्यवहारादिगणितानां निरूपणमस्ति । अत्रेदं ध्यातव्यमस्ति यत् भुजकोट्यनुपातेन त्रिभुजसम्बन्धि-प्रक्रियाद्वारा गणितविधीनामानयनं कृतमस्ति । श्रीधराचार्यस्य बीजगणितसम्बन्धिसूत्राणि तु प्रसिद्धान्येव सन्ति, परं चापीय-सरलत्रिभुजयोरपि गणितं परं महत्त्वपूर्ण वर्तते । कतिपयविपश्चित मतमस्ति यत् श्रीधराचार्येण गणितक्षेत्रे कतिपयानि मौलिकतत्त्वानि प्रदत्तानि । द्वादशशतकस्य प्रारम्भे प्रसिद्धगणितज्ञस्य भास्कराचार्यस्य नाम कीर्त्यते । भास्कराचार्येण लीलावतीग्रन्थे त्रिभुजगणितसम्बन्धिविविधविधीनां निर्देशो विहितः । अट्टकविरथवाहदासः 'कन्नडग्रन्थेष्टुमते' उत्पात-परिवेश-इन्द्रधनुष-द्रोण-प्रतिसूर्य-ग्रहद्वेष-ग्रहयुद्धादिप्रकरणेषु विभिन्नविधिद्वारा त्रिभुजगणितस्य निरूपणं कृतमस्ति । 'महेन्द्रसूरिणा 'यन्त्रराजे' यन्त्ररचनाप्रसङ्ग त्रिभुजगणितस्य विधानं कृतमस्ति तथा वृत्तसम्बन्ध्यनेकविधयः त्रिभुजगणितद्वारा निष्कासिताः सन्ति । त्रिभुजगणितस्य विकसितरूपं चापीये सरलत्रिकोणमिती व प्राप्यते । एवं वैदिककालादारम्भ पञ्चदश-षोडशशतकपर्यन्तं त्रिभुजगणिते विकासः सम्पद्यमानो वर्तते। त्रिभुजस्य भेदाः त्रिभुजस्यानेकभेदाः सम्भवाः सन्ति । परं कोण-भुजसम्बन्धेनास्य प्रधानाः षट्भेदाः सन्ति १. समत्रिबाहुत्रिभुजम् । २. समद्विबाहुत्रिभुजम् । ३. विषमबाहुत्रिभुजम् । ४. समकोणत्रिभुजम् । ५. अधिकोणत्रिभुजम् । तथा ६. न्यूनकोणत्रिभुजम् । एतदुपर्युक्तषट्प्रकारकत्रिभुजातिरिक्ताश्चापीयसरलभुजभेदेन प्रत्येकत्रिभुजस्य षड्भेदत्वात् द्वादशप्रकाराः त्रिभुजभेदाः भवन्ति । अन्यभेद-प्रभेदानां गणना एष्वेव द्वादशत्रिभुजेष क्रियते । त्रिभुजगणिते कोणभुजयोरेव सर्वाधिक महत्त्वं विद्यते । समतलरेखागणितसम्बन्धिसिद्धान्तस्य, उच्चतररेखागणितसम्बन्धिसिद्धान्तस्यैव चित्ररेखागणितसम्बन्धिसिद्धान्तानां समावेशः उक्तत्रिभुजगणितेषु सञ्जायते। महावीराचार्येण वर्तुलादिक्षेत्राणां त्रिभुजमणिते परिणतः विधिळलेखि । श्रीधरेण ज्योतिनिविषो कदम्बपीतवृत्त-मेरुच्छिन्नपोतवृत्त-क्रान्तिवृत्तमाडीवृत्तादिलघु-महत्वृत्तानां परिणमनविषिषु त्रिभुजगणितोपयोगः कथितोऽस्ति । शङ्क: गणितस्यच्छायागणितस्याधारः त्रिभुजगणितमेवास्ति ।

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478