Book Title: Bharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Author(s): Nemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
Publisher: Prachya Shraman Bharati

View full book text
Previous | Next

Page 449
________________ ४०४ भारतीय संस्कृतिक विकासमें जैन वाङ्मयका अवदान त्रिभुजगणितानयन-विधिः ___ त्रिभुजगणितानयनविधिः प्राचीनकालतः आगच्छन्नस्ति । विधावस्मिन् भुजकोट्याधारयोरुपयोगः क्रियते । महावीराचार्येण त्रिभुजगणितस्यानयनं द्वाभ्यां विधिम्यां विहितम् । यथा व्यावहारिकविधिः, सूक्ष्मविधिश्च । महावीराचार्येण लिखितम् त्रिभुज-चतुर्भुजबाहुप्रतिबाहुसमासदलहतं गणितम् ।' नेमे जयुत्यधैं व्यासगुणं तत्फलार्धमिह बालेन्दोः॥ सम्मुखभुजानां योगानामधराशीनां गुणनफलं त्रिभुजस्य क्षेत्रफलं भवति । अत्र त्रिभुजमेतादृशं चतुर्भुजं कल्पितं, यदाधारस्य सम्मुखभुजतावती लध्वीभवति, यत् सोपक्षणीया जायते । ___अस्यां दशायां त्रिभुजस्य पार्श्ववतिन्यौ भुजे सम्मुख भुजे जायते । ऊर्ध्ववत्तिनीभजा माने नगण्या गृह्यते । मतो नियमे त्रिभुजीयक्षेत्रसम्बधेऽपि सम्मुखभुजानामुल्लेखः कृतोऽस्ति । त्रिभुजस्य भुजयोः योगस्याधराशिः समस्तदशासु उच्चताया आयतो भवति । अतएव एतन्नियमानुसारं प्राप्त क्षेत्रफलं भवितुं शक्नोति । अतएवेदं व्यवहारोपयोगि मतं विद्यते । सूक्ष्मक्षेत्रफलकृते भुजकृत्यन्तरभूहृतभूसंक्रमणं त्रिबाहुकाबाधे । तद्भुजवर्गान्तरपदमवलम्बकमाहुराचार्याः ॥ भुजानां वर्गाणामाधारद्वाराविभाजनेन प्राप्तराश्याधारयोर्मध्ये संक्रमणक्रियया त्रिभुजस्याबाधानां मानानि (माप) प्राप्यन्ते । एतास्वाबाधासु एकस्यापरस्याः संवाधासन्नभुजायाः वर्गाणामन्तरस्य वर्गमूलमवलम्बनस्य मानं भवति । गणितविधिनिम्नप्रकारोऽस्ति जात्यत्रिभुजस्य भुजकोटिकर्णक्षेत्रफलानि च अ अस्मिन् त्रिभुजे अ क, अ ग, भुज-कोटीस्तः, क ग कर्णोऽस्ति । क अ गसमकोणोऽस्ति । असमकोणविन्दुना क ग-कर्णोपरि लम्बोऽस्ति कृतः।। :: म क = क ग x क म, अ ग = क ग x ग म :: अक+अ ग = क ग x क म+ क ग ग म = क ग १. गणितसारसंग्रहः, क्षेत्रगणितव्यवहारः, जैन संस्कृति संरक्षक संघ, शोलापुर, श्लोक ७, पृ० १-२ २. वही : श्लोक ४९, पृ० १९२

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478