Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 41
________________ ॥श्री मानतुङ्गसूरिविरचितम् ।। C . दंशमशकादिकमरक्षताम्। प्रातः स्वामिपार्श्वभुवं प्रमाय॑ नलिनीदलानीतनीरेणाभ्यषिञ्चताम्। बकुलकमलपाटलादिकुसुमप्रकरं विस्तार्य चरणावभ्य उस्मद्वाञ्छितदो भवेत्युक्त्वा नमोऽकार्टाम्। उभयपार्श्वयोरसिधरौ तीर्थनाथमसेविषाताम्। एवं मध्यंदिने सन्ध्यायामपि वन्दित्वा कामितमयाचताम्। इत्थं जङ्गमं तीर्थं समाश्रयतोर्नमिविनम्योर्गतः कियान् कालः ॥ एकदा धरणेन्द्रश्चलितासनः स्वामिनं निमंसिषुरैत्। नमस्कृतो भावसारं भगवान् स्तुतश्च, तावपश्यत्। कौ युवां किमर्थं परमगुरुसेवायै लग्नावित्यपृच्छत्। तावूचतुः - भो महाशय ! कच्छमहाकच्छसुतौ नमिविनमी क्षत्रियावावाम्। राज्यार्थं नाथं सेवितुमारभावहि। पातालेन्द्रोऽवदत् - निरीहो निर्ममो मुक्तसर्वसङ्गो भगवान् किं वितरिष्यति? निर्धनात् का धनप्राप्तिः ? न च कस्मै रुष्यति न तुष्यति नीरागत्वादसौ । भरतं भजत । स सकाञ्चनस्तुष्टो राज्यांशं युवाभ्यां दास्यति । तौ स्माहतुः - शृणु भो ! स्वामी यादृक् त्वयोक्तस्तादृगस्तु। आवाभ्यां वाञ्छितायासावाश्रितः, सफलो भवतु मा भवतु वा, भरतं न सेवावहे । कल्पवृक्षं मुक्त्वा कः 'कर्कन्धूं स्वीकुरुते? काञ्चनं त्यक्त्वा क आरमादत्ते ? चिन्तामणिं हित्वा कः कर्करकं ग्रन्थौ बन्धाति? रत्नाकरं विहाय को लवणाकरं श्रयते? इति जानीहि । इहामुत्रावयोः स्वाम्ययमेव। फणीन्द्रस्तयोरद्वितीयां भक्ति मत्वा श्रीऋषभरूपं विकृत्याष्टचत्वारिंशत् सहस्राणि मन्त्रानगदत् । रोहिणीप्रमुखाः साम्नाया देव्यः प्रत्यक्षीकृत्य दत्तास्तेन वैताढ्ये दक्षिणोत्तरश्रेणौ पञ्चाशत्षष्टिपुरस्थापना कृता खेचरतामगातां तौ। धरणेन्द्रः सर्वां स्थितिं कृत्वा नागनिकायमगमत्। तत्सम्बन्धिनः स्वजनाः सर्वे विद्याधरतां प्रापुः । तौ विमानयानसमानश्रीप्रौढौ नव्यदिव्यविमानारूढौ भरतभूपायात्मानं दर्शयित्वा दक्षिणश्रेणौ रथनूपुरचक्रवालपुरे श्रीनमिः, उत्तरश्रेणी १. बदरीम् । २. पित्तलम् । ना १२५ -

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203