Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 185
________________ ॥श्री भक्तामरस्तोत्रम् ॥ अथ भगवतो दीपेनोपमानिर्गममाह - निर्धूमेत्यादि व्याख्या - हे त्रिभुवनैकदीप ! त्वमपर:- अपूर्वो दीपः- कज्जलध्वजोऽसि-वर्तसे, यतो दीपो धूमवान् सवर्तिस्तैलेनोद्द्योतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात्, त्वमपूर्वदीपः, यतः किंविशिष्टः? “निर्धूमवर्तिः'। धूमश्च वर्तिश्च धूमवर्ती 'द्वन्द्वः', धूमवर्तिभ्यां निर्गतो निधूमवर्तिः 'तत्पुरुषः'। धूमो द्वेषः वर्तिः कामदशा ताभ्यां रहित इत्यर्थः। त्वं किंभूतः? 'अपवर्जिततैलपूरः' त्यक्ततैलपूरः। तैलस्य पूरः तैलपूरः 'तत्पुरुषः', अपवर्जितस्तैलपूरो येन सः ‘बहुव्रीहिः'। त्यक्तस्नेहप्रकरः। अन्यच्च - हे नाथ ! - हे स्वामिन्! त्वं कृत्स्नं-सम्पूर्ण पञ्चास्तिकायात्मकं जगत्त्रयं - विश्वत्रयं, जगतां त्रयं जगत्त्रयं (तत्) 'तत्पुरुषः' इदं - प्रत्यक्षगतं प्रकटीकरोषि-केवलोयोतेन प्रकाशयसि। प्रकटं करोषीति प्रकटीकरोषि। अन्यच्च - त्वं जातु - कदाचित् चलिताचलानां-कम्पितगिरीणां, चलिता अचला यैस्ते चलिताचलास्तेषां 'बहुव्रीहिः', मरुतां-वातानां, भगवत्पक्षे मरुतां - देवानां न गम्यो-न वशः, असीति शेषः। त्वं कीदृशः? 'जगत्प्रकाशः' जगदुद्द्योतको वा। जगत्सु प्रकाशो यस्मात् स ‘बहुव्रीहिः'। इति षोडशमवृत्तार्थः।।१६॥ अथ सूर्येणौपम्यनिरासमाह - नास्तमित्यादि ___ व्याख्या - हे 'मुनीन्द्र' ! मुनीनामिन्द्रो मुनीन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः'। हे मुनीन्द्र ! - हे मुमुक्षुप्रभो ! त्वमसि-भवसि । त्वं कीदृशः? “सूर्यातिशायिमहिमा' सुराधिकमहत्त्वः सूर्यमतिशेते इत्येवंशीलं सूर्यातिशायी ‘तत्पुरुषः', सूर्यातिशायी महिमा यस्य स ‘बहुव्रीहिः'। तथा यतोऽस्तं - तिरोधानं त्वं कदाचित् नोपयासि-नोपगच्छसि। सूरः सन्ध्यासमये अस्तं याति, त्वं तु सदा प्रकाशरूपः। तथा त्वं ना ८१

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203