Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 202
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। त्वन्नामनागदमनी त्वन्नामैव नागदमनी-औषधिविशेषः जाङ्गलीविद्या वा, तव नाम त्वन्नाम 'तत्पुरुषः', त्वन्नामैव नागदमनी त्वन्नामनागदमनी ‘कर्मधारयः', वर्तते इति शेषः, स पुमान् ‘निरस्तशङ्कः' निरस्ता शङ्का येन स ‘बहुव्रीहिः' निर्भयः सन् ‘क्रमयुगेन' क्रमयोयुगं क्रमयुगं तेन “तत्पुरुषः' निजचरणयुगलेन ‘फणिनं' फणा विद्यन्ते यस्य स फणी तं 'बहुव्रीहिः' सर्प आक्रामति-घर्षति रज्जुवत्। क्रमयुगग्रहणेन विशेष द्योतयति। सामान्योऽपि सर्पः पादाहतः कुप्यति, दुष्टदन्दशूकस्य तु का वार्ता?। किंभूतं फणिनम्? 'रक्तक्षणं' रक्ते ईक्षणे यस्य स तं 'बहुव्रीहिः', ताम्रनेत्रम्। (पुनः) किंभूतं फणिनम्? 'समदकोकिलकण्ठनीलम्'। कोकिलस्य कण्ठः कोकिलकण्ठः 'तत्पुरुषः', सह मदेन वर्तते - यः स समदः 'बहुव्रीहिः', समदश्चासौ कोकिलकण्ठश्च समदकोकिलकण्ठः ‘कर्मधारयः', समदश्चासौ कोकिलश्च समदकोकिलः ‘कर्मधारयः', समदकोकिलस्य कण्ठः समदकोकिलकण्ठः 'तत्पुरुषः' इति वा, समदकोकिलकण्ठवन्नीलः समदकोकिलकण्ठनीलः 'तत्पुरुषः', मत्तपिकगलकालम्। फणिनं पुनः किंभूतम्? 'क्रोधोद्धतं' कोपोत्कटम्। क्रोधेनोद्धतः क्रोधोद्धतस्तं 'तत्पुरुषः' । पुनः किंलक्षणं फणिनम्? । 'उत्फणं' ऊर्वीकृतस्फटम्। उद्-ऊर्ध्वं फणा यस्य स उत्फणस्तं 'बहुव्रीहिः'। फणिनं किं कुर्वन्तम्? 'आपतन्तं' सन्मुखं धावन्तम्। इति सप्तत्रिंशत्तमवृत्तार्थः ॥३७॥ * * * अथ रणभयं निरस्यन्नाह - वल्गत्तुरङ्गेत्यादि व्याख्या - हे देवाधिदेव ! त्वत्कीर्तनात्-त्वन्नामग्रहणात्, तव कीर्तनं त्वत्कीर्तनं तस्मात् 'तत्पुरुषः' आजौ-सङ्ग्रामे बलवतामपिशक्तानामपि, बलं विद्यते येषां ते वलवन्तस्तेषां 'बहुव्रीहिः', भूपतीनां राज्ञां, भुवः ना ९८ |

Loading...

Page Navigation
1 ... 200 201 202 203