Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 203
________________ ॥श्री भक्तामरस्तोत्रम् / / पतयो भूपतयस्तेषां 'तत्पुरुषः' बलं-कटकमाशु-शीघ्रं भिदां-भेदमुपैतिप्रयाति, प्रलयं यातीत्यर्थः / बलं किंभूतम्? 'वल्गत्तुरङ्गगजगर्जितभीमनादं' वल्गतां-युद्ध्यमानानां तुरगाणां गजानां च गर्जितानि तैर्भीमा-रौद्रा नादाः-सिंहनादा यत्र तत्। तुरङ्गाश्च गजाश्च तुरङ्गगजाः 'द्वन्द्वः',वल्गन्तश्च ते तुरङ्गगजाश्च वल्गत्तुरङ्गगजाः ‘कर्मधारयः', वल्गत्तुरङ्गगजानां गर्जितानि वल्गत्तुरङ्गगजगर्जितानि 'तत्पुरुषः' अथवा वल्गन्तश्च ते तुरङ्गाश्च वल्गत्तुरङ्गाः ‘कर्मधारयः', गजानां गर्जितानि गजगर्जितानि 'तत्पुरुषः' वल्गत्तुरङ्गाश्च गजगर्जितानि च वल्गत्तुरङ्गगजगर्जितानि 'द्वन्द्वः' भीमाश्च ते नादाश्च भीमनादाः ‘कर्मधारयः', वल्गत्तुरङ्गगजगर्जितैर्भीमनादा यत्र तद् ‘बहुव्रीहिः'। दृष्टान्तमाह- इव यथा तमः - अन्धकारं भिदामुपैति-भेदं गच्छति। तमः किंलक्षणम्? 'उद्यद्दिवाकरमयूखशिखापविद्धं' उद्गच्छत्सुरकराग्रप्रेरितम्। दिवा करोतीति दिवाकरः ‘तत्पुरुषः', दिवेति शब्दोऽव्ययमध्येऽस्ति, उद्यंश्चासौ दिवाकरश्चोद्यदिवाकरः 'कर्मधारयः', उद्यद्दिवाकरस्य मयूखाः उद्यद्दिवाकरमयूखाः 'तत्पुरुषः', उद्यद्दिवाकरमयूखानां शिखा उद्यद्दिवाकरमयूखशिखाः 'तत्पुरुषः', उद्यद्दिवाकरमयूखशिखाभिरपविद्धं उद्यद्दिवाकरमयूखशिखापविद्धं 'तत्पुरुषः'। इत्यष्टत्रिंशत्तमवृत्तार्थः // 38 // * * * अत्रापि सङ्ग्रामभयं निरस्यन्नाह - कुन्ताग्रेत्यादि ___ व्याख्या - हे जिनेश्वर ! जना युद्धे-सङ्ग्रामे जयं लभन्ते-प्राप्नुवन्ति। जनाः किंलक्षणाः? 'त्वत्पादपङ्कजवनाश्रयिणः' त्वत्पादकमलकाननभाजः। तव पादौ त्वत्पादौ 'तत्पुरुषः', पङ्के जायन्ते स्मेति पङ्कजानि 'तत्पुरुषः', पङ्कजानां वनं पङ्कजवनं 'तत्पुरुषः', त्वत्पादावेव पङ्कजवनं त्वत्पादपङ्कजवनं 'कर्मधारयः', त्वत्पादपङ्कजवनमाश्रयन्त इत्येवंशीला का 99 /

Loading...

Page Navigation
1 ... 201 202 203