Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
धिपः 'तत्पुरुषः' सिंहोऽपि ते-तव क्रमयुगाचलसंश्रितं - चरणयुग्मपर्वतकृतवासं, क्रमयोर्युगं क्रमयुगं 'तत्पुरुषः', क्रमयुगमेवाचलः क्रमयुगाचलः 'कर्मधारयः', क्रमयुगाचलं संश्रितः क्रमयुगाचलसंश्रितः 'तत्पुरुषः' एवंविधं पुरुषं नाकामति-न ग्रहणायोद्यतते, न हन्तुमुद्धावतीत्यर्थः। पुरुषं किंभूतम्? 'क्रमगतं' क्रमयोर्गतः क्रमगतः तं 'तत्पुरुषः', फालप्राप्तमित्यर्थः। हरिणाधिपः किंलक्षणः? 'बद्धक्रमः' बद्धः-कीलितः क्रमः - पराक्रमो यस्याथवा बद्धाः क्रमाः - पादविक्षेपरूपा येन स बद्धक्रमः ‘बहुव्रीहिः'। हरिणाधिपः किंविशिष्टः? 'भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः' भिन्नाभ्यां (-पाटिताभ्यां) हस्तिशिर:- पिण्डाभ्यां गलता-पतता उज्ज्वलेन-श्वेतवर्णेन शोणिताक्तेनरुधिरखरण्टितेन मुक्ताफलप्रकरेण-मौक्तिकसमूहेन भूषितो-मण्डितो भूमिभागो येन सः। एतेन भद्रद्विपहन्तृत्वान्महाबलिष्ठत्वं सूचितम्। भिन्नश्चासाविभश्च भिन्नेभः ‘कर्मधारयः' भिन्नेभस्य कुम्भौ भिन्नेभकुम्भौ ‘तत्पुरुषः', उज्ज्वलं च तत् शोणितं च उज्ज्वलशोणितं 'कर्मधारयः', गलच्च तद् उज्ज्वलशोणितं च गलदुज्ज्वलशोणितं 'कर्मधारयः', भिन्नेभकुम्भाभ्यां गलदुज्ज्वलशोणितं भिन्नेभकुम्भगलदुज्ज्वलशोणितं 'तत्पुरुषः', भिन्नेभकुम्भगलदुज्ज्वशोणितेनाक्तः भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तः ‘तत्पुरुषः', मुक्ताफलानां प्रकरः मुक्ताफलप्रकरः 'तत्पुरुषः' भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तश्चासौ मुक्ताफलप्रकरश्च भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरः ‘कर्मधारयः', भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरेण भूषितो भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितः 'तत्पुरुषः', भूमे गो भूमिभागः 'तत्पुरुषः', भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितो भूमिभागो येन स भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः ‘बहुव्रीहिः'। इति पञ्चत्रिंशत्तमवृत्तार्थः ।।३५।।
मा ९६ |

Page Navigation
1 ... 198 199 200 201 202 203