Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥ श्री भक्तामरस्तोत्रम् ॥
-
काचस्य शकलं काचशकलं तस्मिन् 'तत्पुरुषः', नैव तेजो महत्त्वं याति। काचशकले कीदृशेऽपि? 'किरणाकुलेऽपि' रश्मिव्याप्तेऽपि। किरणैराकुलं किरणाकुलं तस्मिन् ‘तत्पुरुषः'। काचशकलतुल्या हरिहरादयः, कथं तथा (दा?) तत्र ज्ञानं भवेत्?। इति विंशतितमवृत्तार्थः ।।२०।।
अथ निन्दास्तुत्योर्मिश्रतामाह - मन्य इत्यादि ___ व्याख्या - हे सकलदेवोत्तम ! यन्मया हरिहरादय एव दृष्टाः, हरिश्च हरश्च हरिहरौ 'द्वन्द्वः', हरिहरावादी येषां ते (हरि०) 'बहुव्रीहिः', विष्णुमहेशादयो दृष्टाः- विलोकिताः तद् वरं मन्ये-प्रधानं जानामि। येषुसुरेषु दृष्टेषु-विलोकितेषु हृदयं-चित्तं त्वयि-भवद्विषये तोषं-प्रमोदमेतिप्राप्नोति। यतस्तैर्हि तव मुद्राऽपि नाभ्यस्ता, ज्ञानं दूरे अस्तु । भवता त्वया वीक्षितेन-विलोकितेन किं जातम्?। येन कारणेनान्यः - अपरः कश्चिद् देवो भवान्तरेऽपि - अन्यजन्मन्यपि, एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन् “तत्पुरुषः', भुवि - लोके मनो न हरति-मानसं न गृह्णाति। यतः सर्वगुणो भवान् तथा भव्यानां चित्तहरणं कुरुते अन्ये देवा रागद्वेषविसंस्थुलत्वादज्ञानविकलत्वाच्च न मनोहरणं कुर्वते। इत्येकविंशतितमवृत्तार्थः ।।२१।।
साम्प्रतं सर्वजननीषु भगवज्जनन्या अतिशायितां वर्णयति - स्त्रीणामित्यादि
व्याख्या - हे चतुर्दशस्वप्नसूचित ! स्त्रीणां-नारीणां शतानि बहुवचनत्वात् कोटाकोटिसंख्याः - पुत्रान्-सुतान् जनयन्ति-प्रसुवते। कथम्? ‘शतशः'। शतं वारानिति शतशः। तासु मध्ये अन्या-अपरा जननीमाता त्वदुपमम्-त्वत्सम, तवोपमा यस्य स त्वदुपमस्तं 'बहुव्रीहिः',
मा ८५ ला

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203