Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 191
________________ ॥श्री भक्तामरस्तोत्रम् ।। प्रकर्षेण ब्रुवते। त्वां किंविशिष्टम्? 'अव्ययं', न विद्यते व्ययो यस्य सोऽव्ययस्तं 'बहुव्रीहिः', सर्वकालस्थितिकस्वभावम्। पुनस्त्वां किंभूतम्? 'विभुम्', विभाति परमैश्वर्येणेति विभुस्तं विभुम्। द्वितीयोऽर्थो भण्यतेविभवति-कर्मोन्मूलने समर्थो भवतीति विभुस्तं विभुम्, अथवा विभुम्इन्द्रादिप्रभुम्। पुनस्त्वां किंभूतम्? 'अचिन्त्यं', चिन्तनार्हश्चिन्त्यः, न चिन्त्योऽचिन्त्यस्तं 'तत्पुरुषः', अध्यात्मिकैरपि चिन्तितुमशक्यम्। तथा त्वां किंभूतम्? 'असङ्ख्यं', न विद्यते सङ्ख्या यस्य सोऽसङ्ख्यस्तं 'बहुव्रीहिः', गुणैरपि अपरिमेयमित्यर्थः। पुनस्त्वां किंभूतम्? 'आद्यम्' आदौ भव आद्यस्तमाद्यम्, अथवा चतुर्विंशतिजिनेष्वाद्यस्तमाद्यं-प्रथमं तीर्थंकरं तस्य तीर्थस्यादिकरत्वादाद्यस्तमाद्यं-प्रथमम्। पुनस्त्वां किंभूतम्? 'ब्रह्माणं' बृहति-अनन्तानन्देन वर्धते इति ब्रह्मा तम्। पुनस्त्वां किंभूतम्? 'ईश्वर' नाथम्। पुनस्त्वां किंभूतम्? 'अनन्तं', न विद्यतेऽन्तो यस्य - 'बहुव्रीहिः', मुक्तिपदप्राप्तत्वात् मृत्युरहितम्। पुनस्त्वां किंभूतम्? 'अनङ्गकेतुम्', अनङ्गे केतुरनङ्गकेतुस्तं 'तत्पुरुषः', कामनाशनम्। पुनस्त्वां किंभूतम्? 'योगीश्वरं', योगो विद्यते येषां ते योगिनः, योगिनामीश्वरो योगीश्वरस्तं 'तत्पुरुषः', योगिनां - मनोवचःकायजितां ज्ञातचतुर्ज्ञानिनां वा ईश्वर-नाथम्। पुनस्त्वां किंभूतम्? 'विदितयोगम्'। विदितो योगो येन यस्य वा स विदितयोगस्तं 'बहुव्रीहिः'। विदितो-ज्ञातो ध्यानिभिर्मनोवाक्कायसंवररूपोऽष्टांगरूपो वा योगो यस्य स विदितयोगस्तम्। पुनस्त्वां किंभूतम्? 'अनेकम्'। न एकोऽनेकस्तं 'तत्पुरुषः', ज्ञानेन सर्वगतत्वात्। पुनस्त्वां किंभूतम्? “एकं' जीवद्रव्याद्यपेक्षया। पुनस्त्वां किंभूतम्? 'ज्ञानस्वरूपं', ज्ञानमेव स्वरूपं यस्य स ज्ञानस्वरूपस्तं 'बहुव्रीहिः', क्षायिककेवलचिन्मयम्। पुनस्त्वां किंभूतम्? 'अमलं' निर्मलम्। न विद्यते रागादिमलो यत्र सोऽमलस्तं ‘बहुव्रीहिः', अष्टादशदोषरहितम्। पञ्चदश उक्तयो वाऽत्र पृथक्तया ज्ञेयाः। इति चतुर्विंशतितमवृत्तार्थः ॥२४॥ का ८७ |

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203