Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥श्री भक्तामरस्तोत्रम् ॥
जगतां त्रितयं जगत्रियं 'तत्पुरुषः', जगत्रितयस्योपमानानि जगत्रितयोपमानानि 'तत्पुरुषः', निर्गतः शेषादिति निःशेषः 'तत्पुरुषः', निःशेषेण निर्जितानि निःशेषनिर्जितानि “तत्पुरुषः', निःशेषनिर्जितानि जगत्रितयोपमानानि येन तद् ‘बहुव्रीहिः'। बिम्बं कथंभूतम्? “कलङ्कमलिनं' मृगशशकश्मलम् (?)। कलङ्केन मलिनं कलङ्कमलिनं 'तत्पुरुषः'। यच्चन्द्रमण्डलं वासरे-दिवसे पाण्डुपलाशकल्पं जीर्णपक्वं पाण्डुरवर्णपत्रसदृशं भवति। पाण्डु च तत् पलाशं च पाण्डुपलाशं ‘कर्मधारयः', पाण्डुपलाशस्य कल्पं पाण्डुपलाशकल्पं 'तत्पुरुषः'। तेन त्वन्मुखस्योपमानचन्द्रो न घटते। इति त्रयोदशमवृत्तार्थः ।।१३।।
* * * अथ गुणव्याप्तिमाह - सम्पूर्णेत्यादि
व्याख्या - हे 'त्रिजगदीश्वर' ! हे त्रिभुवननाथ !। त्रयाणां जगतां समाहारस्त्रिजगत् ‘द्विगुः,' त्रिजगतः ईश्वरः त्रिजगदीश्वरस्तस्य सम्बोधनं 'तत्पुरुषः'। तव गुणाः क्षमावैराग्यादयः कर्तृभूतास्त्रिभुवनं-त्रिजगत् त्रयाणां भुवनानां समाहारस्त्रिभुवनं द्विगुः' कर्म लङ्घयन्ति। लङ्घनं लङ्घिः लडिं कुर्वन्तीति लङ्घयन्ति-अतिक्रामन्ति, आत्रिलोकी तिष्ठन्तीत्यर्थः। गुणाः किंविशिष्टाः? 'सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः' आश्विनपूर्णिमासम्बन्धी शशाङ्क:-चन्द्रस्तस्य कलाकलापः-करनिकरस्तद्वच्छुभ्राः - धवलाः। सम्पूर्ण मण्डलं यस्य स सम्पूर्णमण्डलः ‘बहुव्रीहिः', शशोऽङ्के यस्य स शशाङ्क: ‘बहुव्रीहीः', सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः 'कर्मधारयः', कलानां कलापः कलाकलापः 'तत्पुरुषः', सम्पूर्णमण्डलशशाङ्कस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः ‘तत्पुरुषः', सम्पूर्णमण्डलशशाङ्ककलाकलापवत् शुभ्राः
का ७९ |

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203