Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 180
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ जातैः। कस्याम्? 'भुवि' पृथिव्याम्। एतन्नात्यद्भुतं-नातिचित्रम्। अतिशयेनाद्भुतमत्यद्भुतं 'तत्पुरुषः'। अत्र व्यतिरेकमाह-ननु-निश्चितं वा अथवा किं कार्य-किं प्रयोजनं भवति तेन स्वामिना? अपि तु न किमपि । क्व? ‘इह भुवि' जनमध्ये। तेन केन? आश्रितं भूत्या आत्मसमं न करोतीत्यन्वयः, कर्बोक्तिः। 'करोति' इति क्रियापदम्। कः कर्ता? 'यः' स्वामी। कथम्? 'न'। कं कर्मतापन्नम्? 'आश्रितं' सेवकम्। कया? 'भूत्या' ऋद्ध्या । किंभूतम्? 'आत्मसमं' निजतुल्यम्। आत्मनः (ना) सम आत्मसमः 'तत्पुरुषः'। अहमपि तीर्थंकरं स्तुवन् तद्ध्यानैकमनास्तीर्थकृद्गोत्रार्जको भविताऽस्मीति कवेराशयः। इति दशमवृत्तार्थः।।१०।। दृष्टवेत्यादि व्याख्या - जनस्य चक्षुरन्यत्र तोषं नोपयातीत्यन्वयः कर्बोक्तिः। 'उपयाति' इति क्रियापदम्। किं कर्तृ? 'चक्षुः' लोचनम्। 'नोपयाति' न लभते। कस्य? 'जनस्य' लोकस्य। कं कर्मतापन्नम्? 'तोषं' तुष्टिम्। क्व? 'अन्यत्र' परस्मिन्। किं कृत्वा? 'दृष्ट्वा' अवलोक्य। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। भवन्तं कीदृशम्? 'अनिमेषविलोकनीयम्'। न निमेषेण विलोक्यते-दृश्यते इति अनिमेषविलोकनीयस्तं 'तत्पुरुषः'। अथवा विलोक्यते इति विलोकनीयः, निमेषेण विलोकनीयो निमेषविलोकनीयः 'तत्पुरुषः', न निमेषविलोकनीयः अनिमेषविलोकनीयः 'तत्पुरुषः'। अतिशायिरूपवन्तं भवन्तं पश्यन्तो नेत्रनिमीलनमपि नरा न कुर्वन्तीत्यर्थः। अत्रार्थेऽर्थान्तरन्यासमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं अशितुं क इच्छेत् इत्यन्वयः कर्बोक्तिः। ‘इच्छेत्' इति क्रियापदम्। कः कर्ता? 'कः' प्राणी। 'इच्छेत्' अभिलषेत्। किं कर्तुम्? 'अशितुम्' आस्वादयितुम्। किं कर्मतापन्नम्? ‘जलं' पानीयम्। का ७६ |

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203