Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
हे जिनेन्द्र ! इत्थं - अनेन प्रकारेण यथा तव विभूतिरभूदित्यन्वयः। 'अभूत्' इति क्रियापदम्। का की? 'विभूतिः' समृद्धिः। कस्य? 'तव' कथम्? 'इत्थं' पूर्वोक्तप्रकारेण। कस्मिन्? 'धर्मोपदेशनविधौ' व्याख्यानक्रियायाम्। तथा-तेन प्रकारेण अपरस्य कस्यापि देवस्य न अभूत्, तेन बाह्ययोगमहिम्नाऽपि निश्चीयते यत् त्वमेव परमः पुमानिति, सिंहावलोकनन्यायेन प्रागुक्तं दृढीकृतम्, तेन
"देवागमनभोयान-चामरादिविभूतयः।
मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥॥" इति समन्तभद्रोदन्तमष्टसहस्रीसूत्रं प्रत्याहतं, प्रातिहार्यातिशयप्रमुखबाह्ययोगविभूतेर्भगवद्रूपादिसंसर्गेण वर्णनात् तथारूपा हि विभूतिर्न देवाधिदेवव्यभिचारिणी, मायाविलक्षैरपि भगवद्रूपस्य साम्यं कोट्यंशेनापि न कर्तुं शक्यमित्यास्तां विस्तरः, तथा च सुष्ठूक्तं (वीतरागस्तोत्रे प्र.४ श्लो.७) हेमसूरिपादैः- 'बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परै'रिति। अत्र दृष्टान्तमाह दिनकृतः- सूर्यस्य यादृक् प्रभा-कान्तिर्भवति तादृक्-तद्रूपा ग्रहगणस्य प्रभा कुतः कारणात् संभवति? नैव संभवतीत्यर्थः। कथंभूतस्य ग्रहगणस्य? “विकाशिनोऽपि' प्रकाशवतोऽपि। कथंभूता दिनकृतः प्रभा? 'प्रहतान्धकारा' निरस्ततिमिरा ।।
अथ समासा :- जिनेन्द्र पदे प्राग्वत् । धर्मस्य उपदेशनं धर्मोपदेशनं, तस्य विधिः धर्मोपदेशनविधिस्तस्मिन् । तथा दिनं करोतीति दिनकृत् तस्य । प्रहतं अन्धकारं यया सा प्रहतान्धकारा निरस्ततिमिरा । ग्रहाणां-नक्षत्रादीनां गणो ग्रहगणस्तस्य। विकाशोऽस्यास्तीति विकाशी, तस्य विकाशिनः॥ इति काव्यार्थः ॥३३।।
અર્થ - હે જિનેન્દ્ર આ પ્રમાણે ધર્મના ઉપદેશની વિધિમાં જેવી આપની અતિશય રૂ૫ સમૃદ્ધિ હતી, તેવી બીજાને (હરિહરાદિક દેવને) ન હોતી (કારણ કે) અંધકારને હણનારા સૂર્યની કાન્તિ જેવી છે તેવી કાન્તિ વિકસ્વર એવા પણ डोना समूडनी यांची डोय ? (न. ४ छोय.)
का ५२ |

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203