Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
समुद्रभयनाशमाह -
अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ।
रङ्गत्तरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ दण्डान्वय :- क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ अम्भोनिधौ रङ्गत्तरङ्गशिखरस्थितयानपात्राः भवतः स्मरणात् त्रासम् विहाय व्रजन्ति ।
हे जिनेन्द्र ! जना भवतः स्मरणात् व्रजन्ति-यान्ति इत्यन्वयः। 'यान्ति' इति क्रियापदम्। के कर्तारः? 'जनाः' । किं कर्मतापन्नम्? 'स्वस्थानम्' इति शेषः। कस्मात्? 'भवतः स्मरणात्' मनसि चिन्तनात्। किं कृत्वा? 'त्रासं विहाय' (आकस्मिकं भयं) परित्यज्य। कीदृशा जनाः? अम्भोनिधौ-समुद्रे रङ्गन्तःसर्वतश्चलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखराणि-अग्राणि तेषु स्थितानि यानपात्राणि-प्रवहणानि येषां ते। कीदृशे अम्भोनिधौ? 'क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ'। अर्थस्तु समासादेव, स चैवम्-नक्राणां-जलचराणां चक्राणि-समूहा नक्रचक्राणि, पाठीनाश्च पीठाश्च मत्स्यभेदौ पाठीनपीठाः, भयं दत्ते इति भयदः, स चासौ उल्बण:-प्रकटश्च भयदोल्बणः विशेषणसमासः, भयदोल्बणश्चासौ वाडवाग्निः-वडवानलश्च भयदोल्बणवाडवाग्निः, भीषणानि-रौद्राणि च तानि नक्रचक्राणि च भीषणनक्रचक्राणि, भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः, क्षुभिता:-क्षोभं गता भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स तथा तस्मिन् । अम्भसां निधिरम्भोनिधिस्तस्मिन्। रङ्गेत्यादिसमासः प्रागुक्तः एव ।। इति काव्यार्थः।।४०||
અર્થ - ભયંકર મગરમચ્છોના ટોળાવાળા, પાઠીન-પીઠ નામના માછલા વાળા અને ભયંકર આકરા વડવાનલ અગ્નિવાળા તથા ખળભળેલા એવા સમુદ્રમાં ઉછળતા કલ્લોલના શિખરે ચઢી જતાં વહાણવાળા લોકો આપના સ્મરણથી (७५९ प्रसन1) त्रास विना यात्या य छे.
ना ६०

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203