SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ।। समुद्रभयनाशमाह - अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ। रङ्गत्तरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ दण्डान्वय :- क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ अम्भोनिधौ रङ्गत्तरङ्गशिखरस्थितयानपात्राः भवतः स्मरणात् त्रासम् विहाय व्रजन्ति । हे जिनेन्द्र ! जना भवतः स्मरणात् व्रजन्ति-यान्ति इत्यन्वयः। 'यान्ति' इति क्रियापदम्। के कर्तारः? 'जनाः' । किं कर्मतापन्नम्? 'स्वस्थानम्' इति शेषः। कस्मात्? 'भवतः स्मरणात्' मनसि चिन्तनात्। किं कृत्वा? 'त्रासं विहाय' (आकस्मिकं भयं) परित्यज्य। कीदृशा जनाः? अम्भोनिधौ-समुद्रे रङ्गन्तःसर्वतश्चलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखराणि-अग्राणि तेषु स्थितानि यानपात्राणि-प्रवहणानि येषां ते। कीदृशे अम्भोनिधौ? 'क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ'। अर्थस्तु समासादेव, स चैवम्-नक्राणां-जलचराणां चक्राणि-समूहा नक्रचक्राणि, पाठीनाश्च पीठाश्च मत्स्यभेदौ पाठीनपीठाः, भयं दत्ते इति भयदः, स चासौ उल्बण:-प्रकटश्च भयदोल्बणः विशेषणसमासः, भयदोल्बणश्चासौ वाडवाग्निः-वडवानलश्च भयदोल्बणवाडवाग्निः, भीषणानि-रौद्राणि च तानि नक्रचक्राणि च भीषणनक्रचक्राणि, भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः, क्षुभिता:-क्षोभं गता भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स तथा तस्मिन् । अम्भसां निधिरम्भोनिधिस्तस्मिन्। रङ्गेत्यादिसमासः प्रागुक्तः एव ।। इति काव्यार्थः।।४०|| અર્થ - ભયંકર મગરમચ્છોના ટોળાવાળા, પાઠીન-પીઠ નામના માછલા વાળા અને ભયંકર આકરા વડવાનલ અગ્નિવાળા તથા ખળભળેલા એવા સમુદ્રમાં ઉછળતા કલ્લોલના શિખરે ચઢી જતાં વહાણવાળા લોકો આપના સ્મરણથી (७५९ प्रसन1) त्रास विना यात्या य छे. ना ६०
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy