________________
॥श्री भक्तामरस्तोत्रम् ॥
अथ रोगभयभेदमाह - उद्भूतभीषणजलोदरभारभुग्नाः
शोच्यां दशामुपगताश्च्युतजीविताशाः। त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मा भवन्ति मकरध्वजतुल्यरूपाः॥४१॥ दण्डान्वय :- उद्भूतभीषणजलोदरभारभुग्नाः शोच्याम् दशाम् उपगताः च्युतजीविताशाः माः त्वत्पादपङ्कजरजोमृतदिग्धदेहाः मकरध्वजतुल्यरुपाः भवन्ति।
हे जिनेन्द्र ! मा मकरध्वजतुल्यरूपा भवन्ति इत्यन्वयः। 'भवन्ति' इति क्रियापदम्। के कर्तारः? 'माः' मनुष्याः। किंविशिष्टाः? 'मकरध्वजतुल्यरूपाः' कन्दर्पसदृशाकाराः। पुनः किंविशिष्टाः? 'उद्भूतभीषणजलोदरभारभुग्नाः' उद्भूतः-प्रादुर्भूतो भीषणो-रौद्रो यो जलोदरो-रोगविशेषः तस्य भारेणसंघट्टेन भुग्नाः-वक्राः। पुनः किं.? “शोच्यां' शोकयोग्यां ‘दशां' अवस्था 'उपगताः' प्राप्ताः। पुनः किं.? 'च्युत०' च्युता-गलिता जीवितस्य-आयुष आशा-अभिलाषो येषां ते तथारूपाः। पुनः किंविशिष्टरूपाः? 'त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः' तव चरणकमलरेणुलिप्तगात्राः।।
अथ समासा :- भीषणं च जलोदरं च भीषणजलोदरं, जलभृतं उदरं जलोदरं, उद्भूतं चासौ भीषणजलोदरं च उद्भूतभीषणजलोदरं, तस्य भारेण भुग्ना उद्भूतभीषणजलोदरभारभुग्नाः। शोचितुं योग्या शोच्या ताम्। च्युता जीवितस्य आशा येषां ते तथा। तव पादौ त्वत्पादौ, त्वत्पादावेव पङ्कजे त्वत्पादपङ्कजे, तयो रजः त्वत्पादपङ्कजरजः, तदेव अमृतं त्वत्पादपङ्कजरजोऽमृतं, तेन दिग्धो देहो येषां ते तथा। मकरो ध्वजे यस्य स मकरध्वजः, मकरध्वजेन तुल्यं रूपं येषां ते तथा ।। इति काव्यार्थः ।। ४१ ।।
અર્થ - પ્રગટેલા ભયંકર જલોદર રોગના ભારથી વળી ગયેલા દયા ઉપજે. એવી દશાને પામેલા, (અને) જીવવાની આશા વગરના લોકો આપના ચરણ કમળની ધૂળરૂપી અમૃતથી લેપાયેલા શરીરવાળા થાય છે ત્યારે) કામદેવ જેવા રૂપાળા થાય છે.
ना ६१