________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
अथ बन्धभयनाशमाह - आपादकण्ठमुरुश्रृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजङ्गाः। त्वन्नाममन्त्रमनिशं ममुजाः स्मरन्तः
सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ दण्डान्वय :- आपादकण्ठम् उरुशृङ्खलवेष्टिताङ्गाः गाढम् बृहन्निगडकोटिनिघृष्टजवाः मनुजाः अनिशम् त्वन्नाममन्त्रम् स्मरन्तः सद्यः स्वयम् विगतबन्धभयाः भवन्ति।
हे जिनेन्द्र ! मनुजा विगतबन्धभया भवन्ति इति क्रियासण्टङ्कः। 'भवन्ति' इति क्रियापदम्। के कर्तारः? 'मनुजाः' मानवाः। कीदृशाः? 'विगतबन्धभयाः' रोधादिकष्टभीतिवर्जिताः। कथम्? 'सद्यः' शीघ्रम्। केन? 'स्वयं' आत्मना, न तु परप्रयोगेण। किं कुर्वन्तः? अनिशं-सदा त्वन्नाममन्त्रं स्मरन्तःध्यायन्तः। पुनः कीदृशाः? 'आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः' आपादकण्ठं चरणगलप्रदेशं यावत् उरू:-महान् यः शृङ्खलो-लोहरज्जुस्तेन नियन्त्रितशरीराः। पुनः कीदृशाः? 'गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः' गाढं-अत्यन्तं बृहत्-गुरुर्यो निगडो - लोकप्रसिद्धः पादपाशस्तस्य कोटिः- अगं तेन संघट्टितजङ्घादेशाः।
अथ समासा :- पादौ च कण्ठश्च पादकण्ठं, प्राण्यङ्गत्वादेकवद्भावः, पादकण्ठं मर्यादीकृत्य इति आपादकण्ठं, विभक्त्यर्थे अव्ययीभावः। उरुश्चासौ शृङ्खलश्च उरुशृङ्खलः, तेन वेष्टितं अङ्गं येषां ते तथा, बृहच्चासौ निगडश्च बृहन्निगडः, तस्य कोटिः, तया निघृष्टे जो येषां ते तथा। तव नाम त्वन्नाम, मन्त्र इव मन्त्रः, त्वन्नाम चासौ मन्त्रश्च त्वन्नाममन्त्रस्तम्। बन्धस्य भयं बन्धभयं, विगतं बन्धभयं येषां ते तथा। आपादकण्ठमित्यत्राव्ययीभावेऽपि 'आडावधौ' (सिद्ध. अ. २, पा. २, सू. ७०) इति पञ्चमी, तस्याश्च न अमादेश इति तेन क्रियाविशेषणत्वाद् द्वितीया। इति काव्यार्थः।।४२।।
અર્થ - પગથી આરંભીને કંઠ સુધી મોટી સાંકળોથી વીંટાયેલા શરીરવાળા (તથા) અત્યંત મોટી બેડીના અગ્રભાગ વડે ઘસાતી જંઘાવાળા મનુષ્યો નિરન્તર
ना ६२ मा