________________
॥श्री भक्तामरस्तोत्रम् ॥
આપના નામરૂપ મત્રનું સ્મરણ કરતાં એવા તત્કાળ પોતાની મેળે જ બન્ધનના ભયથી રહિત થાય છે. (બન્ધનો તૂટી જાય છે.)
* * * अथ युगपदष्टभयनाशेन स्तुवन्नाह - __ मत्तद्विपेन्द्र-मृगराज-दवानला-हि
सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम्। तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते॥४३॥ दण्डान्वय:- यः मतिमान् तावकम् इमम् स्तवम् अधीते तस्य मत्तद्वीपेन्द्रमृगराजदवानल-अहिसङ्ग्रामवारिधिमहोदरबन्धनोत्यम् भयम् भीया इव आशु नाशम् उपयाति।।
हे जिनेन्द्र ! यः मतिमान् इमं प्रत्यक्षं तावकं स्तवं अधीते-पठति इत्यन्वयः। 'अधीते' इति क्रियापदम्। कः कर्ता? 'यः' मतिरस्यास्तीति "मतिमान्। कं कर्मतापन्नम् ? 'इमं स्तवं' स्तोत्रम्। ___यत्तदोर्नित्याभिसम्बन्धात् तस्य पुरुषस्य आशु-शीघ्रं भयं नाशं उपयातिप्राप्नोति। 'उपयाति' इति क्रियापदम्। किं कर्तृ? 'भयम्'। किं कर्मतापन्नम्? 'नाशम्'। इवोत्प्रेक्ष्यते (क्षणे?)। 'भिया इव' भीत्या इव। भयस्यापि भीतिर्जायते तेन अष्टधा भयं तस्य न स्यादिति भावः। कीदृशं भयम्? 'मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं' मत्तो-मदवान् द्विपेन्द्रो-हस्ती मृगराजः-सिंहः दावानलो-दावाग्निः अहिः-सर्पः सङ्ग्रामो-रणः वारिधिःसमुद्रः महोदरं-जलोदररोगः बन्धनं रोधः, तेभ्यो जातम् ।।
अथ समासा :- द्विपानां इन्द्रो-द्विपेन्द्रः, मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः, मृगाणां राजा मृगराजः, महच्च तत् उदरं च महोदरं, बाहुलकात् समासः, मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सट्टामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनानि, तेभ्य उत्तिष्ठते इति मत्त०, एतदुपलक्षणात् सर्वमपि भयं याति।। इति काव्यार्थः।।४३ ।।
का ६३ |