________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
અર્થ - જે બુદ્ધિશાળી આપનું આ સ્તવન ભણે છે તેના મદોન્મત્ત હાથી-સિંહवान-स-युद्ध-समुद्र-४४२ (मने) बंधन (भा ॥6) थी उत्पन्न थयेवो ભય જાણે પોતેજ ભય પામ્યો હોય તેમ એકદમ નાશ પામે છે.
अथ कविः स्वनामसूचापूर्वं स्तोत्रमाहात्म्यसर्वस्वमाह - स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं
तं 'मानतुङ्ग'मवशा समुपैति लक्ष्मीः ॥४४॥ दण्डान्वय:- जिनेन्द्र ! भक्त्या मया गुणैः निबद्धाम् रुचिरवर्णविचित्रपुष्पाम् तव स्तोत्रस्रजम् इह यः जनः अजस्त्रम् कण्ठगताम् धत्ते तम् मानतुङ्गम् अवशा लक्ष्मीः समुपैति।।
हे जिनेन्द्र ! तं पुरुषं अवशा-शीघ्रं लक्ष्मीः समुपैति। सं-सम्यक्प्रकारेण उपैति-व्याप्पोतीत्यर्थः। 'समुपैति' इति क्रियापदम्। का कर्जी ? 'लक्ष्मीः '। कं कर्मतापन्नम्? 'तं पुरुषम्'। कथम्? 'अवशा' शीघ्रार्थे अव्ययम्, यद्वा कीदृशी लक्ष्मीः ? 'अवशा'व्याहृतचित्ता। कीदृशं तम्? “मानतुङ्ग' मानेन-ज्ञानेन बहुमानेन वा तुङ्ग-प्रौढम् ।
तच्छब्दो यच्छब्दमपेक्षते। तं कम्? यः पुरुष इह लोके तव स्तोत्रस्रजं अजस्रं कण्ठगतां धत्ते-बिभर्ति। 'धत्ते' इति क्रियापदम्। कः कर्ता? 'यः पुरुषः'। कां कर्मतापन्नाम्? 'स्तोत्रस्रजं' स्तवनलक्षणां मालाम्। कीदृशीम्? 'कण्ठे गतां' प्राप्ताम्। कथम् ? 'अजस्रं' निरन्तरम् । कस्य ? 'तव' अर्थादेतां प्रस्तुताम्। कीदृशीम्? 'गुणैः' ज्ञानौदार्यादिभिर्भक्त्या मया-कविना निबद्धाम्, अन्याऽपि या स्रक् भवति सा गुणैः- दवरकैर्बद्धा भवति, तां कण्ठे दधानः पुमान् लक्ष्म्या - कमलया शोभया वा आश्रीयते । पुनः किं. स्तोत्रस्रजम्? 'रुचिरवर्णविचित्रपुष्पां' रुचिरा-मनोहरा ये वर्णा-अक्षराणि त एव विचित्राणि नानाप्रकाराणि पुष्पाणि-कुसुमानि यस्यां सा इति व्याख्येयम् ।।