________________
॥श्री भक्तामरस्तोत्रम् ।।
अथ समासा :- स्तोत्रमेव स्रक् स्तोत्रस्रक् ताम् । रुचिराश्च ते वर्णाश्च रुचिरवर्णाः, त एव विचित्राणि पुष्पाणि यस्यां सा ताम् । कण्ठे गतां कण्ठगता ताम् । मानेन तुङ्गो मानतुङ्गस्तम् । अत्र काव्ये मानतुङ्ग इति कविनामख्यातिः। तथा लक्ष्मीरितिपदं मङ्गलार्थमुपन्यस्तं चक्रेश्वरीबीजं च प्रतिपदं संदर्भितम्, अन्यच्चात्र स्तोत्रे काव्येष्वव्ययबाहुल्यं शास्त्राध्येतृणामव्ययप्रतिफ्त्यर्थमिति जयति युगादिप्रभुः ।।
सूरिः श्री विजयप्रभप्रभुमुखादेशाच्छिशूनां हितोद्देशाद् वृत्तिमिमां व्यधत्त विधिना श्रीमेघनामा कविः । शिष्यः श्रीसुधियां कृपादिविजयाख्यानाममुष्यां पुनर्यद् दृब्धं तदिह प्रसादसदनैः शोध्यं विशुद्धाशयैः ॥॥-शार्दूल.
॥ इति श्री भक्तामरस्तवराजवृत्तिः सम्पूर्णा ॥ श्रीरस्तु ॥ सकलभट्टारकशिरोमणिभट्टारक श्री श्री श्री श्री श्री १०८ श्रीविजयप्रभसूरीश्वर-चरण-कमलसेवकमहोपाध्यायश्रीमेघविजयगणिभिर्विरचितेति श्रेयः। श्लोकसङ्ख्या ग्रन्थाग्रं १००० ।। सकलभट्टारकशिरोमणिभट्टारक श्री ५ श्रीविजयदेवसूरीश्वरचरणकमलसेवकमहोपाध्यायनयविजयगणितच्छिष्य पं. हस्तिविजयगणितच्छिष्य पं० रूपविजयगणितच्छिष्यमुनिकस्तूरविजयलिखिता ।। संवत् १७८२ वर्षे वैशाख शुदि ३ दिने शनिवासरे। शुभं भवतु श्रीजगवल्लभप्रसादात्, लिखितं नागोरीसरामध्ये ।।
અર્થ - હે જિનેશ્વર ! ભક્તિથી મારાવડે (માનતુંગસૂરિવડે) પૂર્વે કહેલા જ્ઞાનાદિગુણોથી ગૂંથેલી (તથા) મનોહર અકારાદિક અક્ષરો રૂપી વિચિત્ર પુષ્પોવાળી (આ) આપની સ્તોત્રરૂપ માળાને આ જગતમાં જે મનુષ્ય નિરંતર કંઠમાં રાખેલી ધારણ કરે છે તે ચિત્તની ઉન્નતિવાળા પુરુષને (અથવા) માનતુંગસૂરિને પોતાની મેળે લક્ષ્મી પ્રાપ્ત થાય છે.
ना ६५ का