________________
-
-
श्रीकनककुशलगणिविरचिता ॥भक्तामरस्तोत्रवृत्तिः॥
श्रीऋषभनाथाय नमः । श्रीसरस्वत्यै नमः ।। प्रणम्य परमानन्द-दायकं परमेश्वरम् । वृत्तिं भक्तामरस्याहं, कुर्वे बालहितैषिणीम् ॥ १॥
भक्तामर० यः संस्तुत० इत्यनयोर्व्याख्या-किलेति सत्ये। तं प्रथम जिनेन्द्रं अहमपि स्तोष्ये इत्यन्वयः। रागादीनां जेतृत्वाज्जिनाः-सामान्यकेवलिनस्तेषामिन्द्रः-तीर्थकरस्तं अहमिति-मानतुङ्गाचार्यः कविः स्तोष्येस्तवनं विधास्ये। न केवलं सुरेन्द्रा एव स्तुवन्तः, किन्त्वहमपीत्यपेक्षया अपिशब्दो ज्ञेयः। जिनानामिन्द्रो जिनेन्द्रः तं 'तत्पुरुषः'। जिनेन्द्र किंलक्षणम्? 'प्रथमम्' आद्यम्, ऋषभमित्यर्थः। पुनः किंलक्षणं तं तमिति यच्छब्दापेक्षम्। तं कम्? 'यः सुरलोकनाथैः संस्तुतः'। 'संस्तुतः' इति क्रियापदम्। कैः कर्तृभिः? 'सुरलोकनाथैः' सुराणां लोकाः सुरलोकाः 'तत्पुरुषः', सुरलोकानां नाथाः सुरलोकनाथाः तैः 'तत्पुरुषः' देवनिवास(?) प्रभुभिः, इन्द्रेरित्यर्थः। 'संस्तुतः' सम्यग्भक्तिबहुमानपुरःसरं भगवदतिशायिगुणपरिज्ञानपूर्वकं वा स्तुतो-वन्दितः। सुरलोकनाथैः किलक्षणैः? 'उद्भूतबुद्धिपटुभिः' उद्भूता-प्रकटिता या बुद्धिः-मतिस्तया पटवोदक्षाः तैः। उद्भूता चासौ बुद्धिश्च उद्भूतबुद्धिः ‘कर्मधारयः', उद्भूतबुद्ध्या पटवः उद्भूतबुद्धिपटवः तैः 'तत्पुरुषः'। कुतः ईदृशैः? “सकलवाङ्मयतत्त्वबोधात्' सकलं-समस्तं यद् वाङ्मयं-शास्त्रं तस्य तत्त्वं-परमार्थस्तस्य बोधो-ज्ञानं तस्मात्। वाचा निवृत्तं वाङ्मयं ‘तत्पुरुषः',
का ६६ का