SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ॥ सकलं च तद् वाङ्मयं च सकलवाङ्मयं ‘कर्मधारयः', सकलवाङ्मयस्य तत्त्वं सकलवाङ्मयतत्त्वं तत्पुरुषः', सकलवाङ्मयतत्त्वस्य बोधः सकलवाङ्मयतत्त्वबोधस्तस्मात् 'तत्पुरुषः', सर्वशास्त्रावगमादित्यर्थः। कैः कृत्वा संस्तुतः? 'स्तोत्रैः' स्तवनैः। किंलक्षणैः स्तोत्रैः? 'जगत्रितयचित्तहरैः' जगतां-भुवनानां त्रितयं स्वर्ग-मर्त्य-पाताललक्षणं तस्य चित्तानिमनांसि तानि हरन्ति-रञ्जयन्तीति तानि तैः। जगतां त्रितयं जगत्रितयं 'तत्पुरुषः', जगत्रितयस्य चित्तानि जगत्रितयचित्तानि “तत्पुरुषः', जगत्रितयचित्तानि हरन्तीति जगत्रितयचित्तहराणि तैः 'तत्पुरुषः', जगत्रितयजन्तुमनआवर्जकैः। अत एव 'उदारैः' महाथेरुद्भटैर्वा। किं कृत्वा स्तोष्ये? 'प्रणम्य' प्रकर्षेण नत्वा। प्रणमनं पूर्वं प्रणम्य। कथम्? 'सम्यग्' भक्तिबहुमानयुक्तं गुणावबोधसहितं वा। किं कर्मतापन्नम्? "जिनपादयुगं' जिनस्य-प्रथमतीर्थकृतः पादौ-चरणौ तयोर्युगं-युग्मम्। जिनस्य पादौ जिनपादौ 'तत्पुरुषः', जिनपादयोर्युगं जिनपादयुगं तत् ‘तत्पुरुषः'। जिनपादयुगं किंलक्षणम्? 'आलम्बनम्' आधारम्। केषाम्? ‘जनानां' लोकानाम्। जनानां किं कुर्वताम्? 'पततां' बुडताम्। कस्मिन्? 'भवजले' भवः-संसार ः स एव जलम्-उदकं तस्मिन्। भव एव जलं भवजलं तस्मिन् ‘कर्मधारयः'। कस्मिन् काले जिनपादयुगमालम्बनं? “युगादौ' अवसर्पिणीतृतीयारकपर्यन्तकाले। युगस्यादिर्युगादिः 'तत्पुरुषः' तस्मिन् युगादौ। जिनपादयुगं कीदृशम्? 'उद्द्योतकं' उद्दीपकम्-उद्द्योतकारकम् । कासाम्? 'भक्तामरप्रणतमौलिमणिप्रभाणां' भक्ता-भक्तिमन्तो ये अमरादेवास्तेषां प्रणता-नम्रा ये मौलयः-शिरोमुकुटानि तेषां तेषु (वा) मणयोरत्नानि इन्द्रनीलादीनि तेषां प्रभा-दीप्तयस्तासाम्। भक्ताश्च ते अमराश्च भक्तामराः ‘कर्मधारयः', प्रणताश्च ते मौलयश्च प्रणतमौलयः ‘कर्मधारयः', भक्तामराणां प्रणतमौलयः भक्तामरप्रणतमौलयः ‘तत्पुरुषः', का ६७ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy