________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
भक्तामरप्रणतमौलीनां मणयः भक्तामरप्रणतमौलिमणयः 'तत्पुरुषः', भक्तामरप्रणतमौलिमणीनां प्रभा भक्तामरप्रणतमौलिमणिप्रभाः तासां तत्पुरुषः', भगवत्पादयुगलस्यातिदीप्तत्वात् तासामपि प्रकाशकमित्यर्थः। पुनः किंलक्षणं जिनपादयुगम्? 'दलितपापतमोवितानं' दलितं-क्षिप्तं पापमेव-किल्बिषमेव तमोवितानम्-अन्धकारजालं येन तत्। तमसो वितानं तमोवितानं “तत्पुरुषः', पापमेव तमोवितानं पापतमोवितानं 'कर्मधारयः', दलितं पापतमोवितानं येन तत् (तद्) 'बहुव्रीहिः' । इति प्रथमद्वितीयवृत्तार्थः ।।१-२।।
* * * अथ कविः स्वौद्धत्यपरिहारार्थमाह - बुद्ध्येत्यादि
व्याख्या - हे ‘विबुधार्चितपादपीठ !' हे देवपूजितचरणासन !। पादयोः पीठं पादपीठं 'तत्पुरुषः', विबुधैरर्चितं विबुधा० 'तत्पुरुषः', विबुधार्चितं पादपीठं यस्य स विबुधार्चितपादपीठः ‘बहुव्रीहिः', तस्य सम्बोधनं हे विबुधार्चितपादपीठ !। अहं विगतत्रपोऽस्मि इत्यन्वयः। 'अस्मि' इति क्रियापदम्। कः कर्ता? 'अहम्'। अहं कीदृशः? “विगतत्रपः' निर्लज्जः। विगता त्रपा यस्मात् सः ‘बहुव्रीहिः'। यतोऽहं कीदृशः? 'समुद्यतमतिः' सज्जीभूतबुद्धिः। समुद्यता मतिर्यस्य सः ‘बहुव्रीहिः'। किं कर्तुम्? 'स्तोतुं' नोतुम्। कथम्? “विना' ऋते। कया? 'बुद्ध्या' शेमुष्या। उक्तार्थसमर्थनार्थमर्थान्तरन्यासमाह-कोऽन्यो जनः सहसा इन्दुबिम्बं ग्रहीतुं इच्छति? अपि तु न कश्चिदेवेत्यन्वयः। 'इच्छति' इति क्रियापदम्। कः कर्ता? 'जनः' लोकः। ‘इच्छति' वाञ्छति। जनः पुनः किंभूतः? 'कः'। पुनः किंलक्षणो जनः? 'अन्यः' अपरः। किं कर्तुम्? ‘ग्रहीतुम्' आदातुम्। किं कर्मतापन्नम्? 'इन्दुबिम्बं' चन्द्रमण्डलम्। इन्दोर्बिम्बं इन्दुबिम्बं (तत्) 'तत्पुरुषः'। कथम्? 'सहसा'
का ६८ |
-