________________
॥ श्री भक्तामरस्तोत्रम् ॥
झटिति । इन्दुबिम्बं किंभूतम् ? 'जलसंस्थितम्' उदकमध्यस्थितम्। जले संस्थितं जलसंस्थितं (तत्) 'तत्पुरुषः ' । किं कृत्वा ? 'विहाय' त्यक्त्वा । कं कर्मतापन्नम् ? बालमज्ञं शिशुम् । कोऽर्थः ? रात्रौ जलप्रतिबिम्बितं चन्द्रमण्डलं बालो यथा आदातुमुद्यतो भवति, तथाऽहमपि बुद्धिविकलः सन् त्वां स्तोतुं समुद्यतोऽस्मि । इति तृतीयवृत्तार्थः ॥ ३॥
***
कुतो विगतलज्ज इत्याह - वक्तुमित्यादि
व्याख्या हे 'गुणसमुद्र !' हे गुणरत्नाकर ! । गुणानां समुद्रो गुणसमुद्रः तस्य सम्बोधने हे गुणसमुद्र ! 'तत्पुरुषः । ते गुणान् वक्तुं कः क्षमोऽस्ति? कर्त्रक्तिः, अपि तु न कोऽपि । यत्रान्यक्रियापदं न श्रूयते तत्रास्ति भवतीत्यादि पुरः प्रयुज्यत इति न्यायादत्रास्तीत्युच्यते। ‘अस्ति’ इति क्रियापदम्। कः कर्ता ? । 'कः' जनः । किंलक्षणः ? 'क्षमः ' समर्थः । किं कर्तुम् ? 'वक्तुं' भाषितुम् । कान् कर्मतापन्नान् ? 'गुणान्' ज्ञानदर्शनचारित्रादीन् । कस्य? 'ते' तव। गुणान् कथंभूतान् ? 'शशाङ्ककान्तान्’ चन्द्रवदुज्ज्वलान्। शशोऽङ्के यस्य शशाङ्कः 'बहुव्रीहिः ', शशाङ्कवत् कान्ताः शशाङ्ककान्तास्तान् 'तत्पुरुषः । कः किदृशोऽपि ? 'सुरगुरुप्रतिमोऽपि' बृहस्पतितुल्योऽपि । सुराणां गुरुः सुरगुरुः 'तत्पुरुषः', सुरगुरोः प्रतिमः सुरगुरुप्रतिमः ‘तत्पुरुषः '। कया ? 'बुद्ध्या' शेमुष्या । उक्तार्थदाढ्र्यार्थमर्थान्तरं न्यस्यति - को वा अम्बुनिधिं तरीतुमलं - समर्थो भवेत् ? अपि तु न कश्चिदेव। 'भवेत्' इति क्रियापदम् (अध्याहार्यम्) । कः कर्ता? ‘कः’। ‘भवेत्’ स्यात् । कथम् ? 'अलं' समर्थः । किं कर्तुम् ? 'तरीतुम्' उल्लङ्घयितुम् । कं कर्मतापन्नम् ? 'अम्बुनिधि' समुद्रम् | अम्बु निधीयतेऽस्मिन्नित्यम्बुनिधिस्तम् । काभ्याम् ? 'भुजाभ्यां' बाहुभ्याम् । कीदृशमम्बुनिधिम् ? 'कल्पान्तकालपवनोद्धतनक्रचक्रं' कल्पान्तकालस्य-युग
६९