SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ क्षयस्य पवनेन-वायुना उद्धतानि-दुर्दर्शनानि ऊर्ध्वं चलितानि वा नक्रचक्राणि-यादोवृन्दानि यत्र (स तम्)। कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकालः 'कर्मधारयः', कल्पान्तकालस्य पवनः कल्पान्तकालपवनः 'तत्पुरुषः', कल्पान्तकालपवनेनोद्धतानि कल्पान्तकालपवनोद्धतानि “तत्पुरुषः', नक्राणां चक्राणि नक्रचक्राणि 'तत्पुरुषः', कल्पान्तकालपवनोद्धतानि नक्रचक्राणि यत्र स तं 'बहुव्रीहिः'। यथा प्रलयमरुत्प्रेरितदुष्टजलजन्तुजातसंयुतयुगान्तक्षुब्धाब्धितरणं दुःशकं, तथा अर्हगुणकीर्तनमपि दुर्घटं तत्राहं प्रवृत्तः। इति चतुर्थवृत्तार्थः ।।४।। * * * अथ स्तवनकरणप्रवृत्तौ कारणमाह - सोऽहमित्यादि ___ व्याख्या - यद्यपि तव गुणान् वक्तुं न कोऽपि शक्तस्तथापि हे मुनीश ! -हे गणधरादियतिस्वामिन् ! मुनीनामीशो मुनीशस्तस्य सम्बोधनं हे मुनीश ! 'तत्पुरुषः', सोऽहं तव स्तवं कर्तुं प्रवृत्तोऽस्मीत्यन्वयः। 'अस्मि' इति क्रियापदम्। कः कर्ता? 'अहम्'। अहं किंलक्षणं? 'प्रवृत्तः'। किं कर्तुम्? ('कर्तुम्') विधातुम्। कं कर्मतापन्नम्? 'स्तवं' स्तोत्रम्। कस्य? 'तव' भवतः। अहं कीदृशोऽपि? “विगतशक्तिरपि' सामर्थ्यहीनोऽपि। विशेषेण गता विगता, विगता शक्तिर्यस्य स “बहुव्रीहिः'। अहं किंभूतः? 'सः'। कथम्? 'तथापि'। कस्मात्? 'भक्तिवशात्' आन्तरभावतः। भक्तेर्वशो भक्तिवशस्तस्मात् 'तत्पुरुषः'। अत्राप्यर्थसमर्थनमाह-मृगः किं मृगेन्द्रं-सिहं नाभ्येति? अपि तु अभ्येति। 'अभ्येति' इति क्रियापदम्। कः कर्ता? 'मृगः' हरिणः। ‘अभ्येति' आभिमुख्येन भवति, सम्मुखमागच्छतीत्यर्थः। कं कर्मतापन्नम्? 'मृगेन्द्र' सिंहम्। मृगाणामिन्द्रो मृगेन्द्रस्तं 'तत्पुरुषः। किमर्थम्? 'परिपालनार्थं' रक्षणार्थम्। परिपालनायेति परिपालनार्थं 'तत्पुरुषः'। कस्य? 'निज ना ७० |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy