________________
॥ श्री भक्तामरस्तोत्रम् ॥
शिशोः' आत्मबालकस्य । निजस्य शिशुर्निजशिशुस्तस्य 'तत्पुरुषः ' । किं कृत्वा ? 'अविचार्य' अपर्यालोच्य । किं कर्मतापन्नम् ? 'आत्मवीर्यं' निजबलम्। आत्मनो वीर्यमात्मवीर्यं तत् 'तत्पुरुषः । कया ? 'प्रीत्या' स्नेहेन । कथम्? 'किम् । यथा मृगो निजबालरक्षणार्थं सिंहाभिमुखं प्रवर्तते, तथाऽहमपि तव स्तवं कर्तुं प्रवृत्तः । इति पञ्चमवृत्तार्थः ॥ ५ ॥
***
अथ कविरसामर्थ्ये सति स्तुतिकरणे वाचालताहेतुमाह अल्पेत्यादि
व्याख्या - हे नाथ ! त्वद्भक्तिर्मा मुखरीकुरुते इत्यन्वयः । ' मुखरीकुरुते' इति क्रियापदम् । का कर्त्री ? 'त्वद्भक्तिः' त्वद्रागः । 'मुखरीकुरुते' वाचालं विधत्ते इत्यर्थः । तव भक्तिस्त्वद्भक्तिः 'तत्पुरुषः ’। अमुखरं मुखरं कुरुते इति मुखरीकुरुते । कं कर्मतापन्नम् ? 'मां' मानतुङ्गाचार्यम्। कथम्? 'एव' निश्चयेन । कस्मात् ? ‘बलात्’ हठात्। मां किंलक्षणम् ? 'अल्पश्रुतं' स्तोकशास्त्रम् । अल्पं श्रुतं यस्य स तं 'बहुव्रीहिः'। अत एव मां किंभूतम् ? 'परिहासधाम' हास्यास्पदम्। परिहासस्य धाम परिहासधाम तत् ' तत्पुरुषः '। केषाम् ? 'श्रुतवतां' दृष्टशास्त्राणाम्। श्रुतं विद्यते येषां ते श्रुतवन्तस्तेषां 'बहुव्रीहिः'। अर्थदृढनार्थमाह- किलेति सत्ये । यत् कोकिलो मधौ मधुरं विरौतीत्यन्वयः । 'विरौति' इति क्रियापदम्। कः कर्ता ? 'कोकिल' पिकः । 'विरौति' कूजति ब्रूते । किं कर्मतापन्नम् ? 'मधुरं ' प्रियम् । कस्मिन् ? 'मधौ' वसन्ते । कथंभूतं मधुरम् ? यत् तत् चारुचूतकलिकानिकरैकहेतुरस्ति । 'अस्ति ' इति क्रियापदम् । किं कर्तृ ? 'तत्' तदतिमधुरम् । तत् कथंभूतम् ? ‘चारुचूतकलिकानिकरैकहेतुः ' चारुः- मनोज्ञो यः चूतः - आम्रस्तस्य कलिकामञ्जर्यस्तासां निकर :- समूहः स एवैकः - अद्वितीयो हेतुः कारणम् । चारु
७१