SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ श्चासौ चूतश्च चारुचूतः ‘कर्मधारयः', चारुचूतस्य कलिकाश्चारुचूतक लिकाः 'तत्पुरुषः', चारुचूतकलिकानां निकरः चारुचूतकलिकानिकरः 'तत्पुरुषः', एकश्चासौ हेतुश्चैकहेतुः ‘कर्मधारयः', चारुचूतकलिकानिकर एव एकहेतुः चारुचूतकलिकानिकरैकहेतुः ‘कर्मधारयः'। तदित्यव्ययपदं सप्तम्यर्थवाचकं तस्मिन् मधुरमिति वा। यथा सुरभिसहकारमञ्जरीकृतभोजनः पुंस्कोकिलो मधुरस्वरवतां पंक्तावुपविशति, तथाऽहं स्तोकग्रन्थोऽपि त्वत्प्रभावात् तव स्तवं कुर्वाणः प्रवीणपंक्तिगतो भविष्यामि। इति षष्ठवृत्तार्थः।।६।। * * * हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह - त्वत्संस्तवेनेत्यादि ___व्याख्या - हे नाथ ! त्वत्संस्तवेन शरीरभाजां पापं क्षणात् क्षयमुपैतीत्यन्वयः। 'उपैति' इति क्रियापदम्। किं कर्तृ? ‘पापम्' अष्टविधकर्म। 'उपैति' गच्छति। कं कर्मतापन्नम्? 'क्षयं' नाशम् केषाम्? 'शरीरभाजां' प्राणिनाम्। शरीरं भजन्तीति शरीरभाजस्तेषां 'तत्पुरुषः'। केन? 'त्वत्संस्तवेन' भवत्स्तवनेन । तव संस्तवस्त्वत्संस्तवस्तेन 'तत्पुरुषः' । पापं किंलक्षणम् ? 'भवसन्ततिसन्निबद्धं' जन्मकोटिसमर्जितम् । भवानां सन्ततिर्भवसन्तति: ‘तत्पुरुषः', भवसन्तत्या सन्निबद्धं भवसन्ततिसन्निबद्धं 'तत्पुरुषः'। कस्मात्? 'क्षणात्' घटिकाषष्ठांशेन, स्तोककालादित्यर्थः। अमुमेवार्थं दृष्टान्तेन दृ(द्र)ढयति इवयथा शार्वरमन्धकारं सूर्यांशुभिन्नं सत् क्षयमुपैति। 'उपैति' इति क्रियाप दम्। किं कर्तृ? 'अन्धकारं' तमः। कं कर्मतापन्नम्? 'क्षयं' नाशम्। 'उपैति' प्रयाति । अन्धकारं किंलक्षणम्? 'शार्वरं' कृष्णपक्षान्तरात्रिसंभवम्। शर्वर्यां भवं शार्वरम्। पुनः किंलक्षणं अन्धकारम्? 'आक्रान्तलोकं' व्याप्तविश्वम्। आक्रान्तो लोको येन तद् ‘बहुव्रीहिः'। पुनः किंलक्षणमन्ध का ७२ जा
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy