________________
॥श्री भक्तामरस्तोत्रम् ।।
कारम्? 'अलिनीलं' मधुकरकुलकृष्णम्। अलिवन्नीलमलिनीलं 'तत्पुरुषः'। पुनः किंभूतमन्धकारम्? 'अशेषं' सकलम्। न विद्यते शेषो यत्र तद् ‘बहुव्रीहिः'। न तु स्तोकं, पापस्यापि विशेषणमेतत्। पुनः किंभूतमन्धकारम्? 'सूर्यांशुभिन्' सहस्रकरैर्विदारितम्। सूर्यस्यांशवः सूर्यांशवः 'तत्पुरुषः', सूर्यांशुभिभिन्नं सूर्यांशुभिन्नं 'तत्पुरुषः'। कथम्? 'आशु' शीघ्रम्। यथा तिमिरनाशहेतुः सूर्योदयः, तथा दुरितनाशहेतुर्जिनस्तवः। इति सप्तमवृत्तार्थः।।७।।
* * * स्तवारम्भकारणं दृ(द्र)ढयन्नाह - मत्वेतीत्यादि
व्याख्या - हे नाथ ! इदं तव स्तवनं मया आरभ्यते कर्मोक्तिः इत्यन्वयः। 'आरभ्यते' इति क्रियापदम्। केन का? 'मया'। 'आरभ्यते' करणायोद्यम्यते। किं कर्मतापन्नम्? 'संस्तवनं' स्तोत्रम्। कस्य? 'तव' भवतः। संस्तवनं किंभूतम्? 'इदम्'। मया कथंभूतेनापि? 'तनुधियाऽपि' स्वल्पमतिनाऽपि। तनुः धीर्यस्य स तनुधीस्तेन ‘बहुव्रीहिः'। किं कृत्वा? “मत्वा' अवबुध्य। कथम्? 'इति'। किम्? पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं पापहरं चेति। इदं संस्तवनं सतां चेतो हरिष्यति कर्बोक्तिः । ‘हरिष्यति' इति क्रियापदम्। किं कर्तृ? 'संस्तवनम्'। किं कर्मतापन्नम्? 'मनः'। केषाम्? ‘सतां' सज्जनानाम्। कस्मात्? 'प्रभावात्' महिम्नः। कस्य? 'तव'। सन्त एव परगुणग्रहणे लम्पटाः, यतः -
"मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः। परगुणपरमाणून् पर्वतीकृत्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः ॥१॥" - मालिनी
- (नीतिशतके श्लो. ७०) का ७३