SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ।। न खलाः । उक्तं च - ___ "सीसं धुणिअं हिययं, चमक्कि पुलइयं च अंगेहिं । __ तहवि हु खलस्स वाणी, परगुणगहणे न निस्सरिआ ॥१॥" - आर्या - नन्विति निश्चये उदबिन्दुर्नलिनीदलेषु मुक्ताफलद्युतिमुपैति। 'उपैति' इति क्रियापदम्। कः कर्ता? 'उदबिन्दुः' वारिच्छटा। उदकस्य बिन्दुरुदबिन्दुः 'तत्पुरुषः'। उदकशब्दस्योद इति निपातः। 'उपैति' उपगच्छति। कां कर्मतापन्नाम्? 'मुक्ताफलद्युति' मौक्तिकच्छायाम्। मुक्ताफलस्य द्युतिर्मुक्ताफलद्युतिस्तां 'तत्पुरुषः'। केषु? 'नलिनीदलेषु' पद्मिनीपत्रेषु । नलिनीनां दलानि नलिनीदलानि तेषु ‘तत्पुरुषः'। यथा पद्मिनीपत्रस्थजलबिन्दुर्मुक्ताफलच्छायां धत्ते, तथा तव स्तवोऽपि त्वत्प्रभावादुत्तमचित्तानन्दकारकः। इत्यष्टमवृत्तार्थः।।८।। अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाह- आस्तामित्यादि व्याख्या - हे अष्टादशदोषनिर्नाशन ! तव स्तवनमास्तामित्यन्वयः। 'आस्ताम्' इति क्रियापदम् । किं कर्तृ? 'स्तवनं' स्तोत्रम्, गुणरहस्योत्कीर्तनमिति यावत्। 'आस्तां' दूरे तिष्ठतु। स्तवनं किंभूतम्? 'अस्तसमस्तदोष' निर्मूलितनिखिलदूषणम्। समस्ताश्च ते दोषाश्च समस्तदोषाः 'कर्मधारयः', अस्ताः समस्तदोषा येन तद् ‘बहुव्रीहिः'। कस्य? 'तव' भवतः। त्वत्सङ्कथाऽपि जगतां दुरितानि हन्तीत्यन्वयः। 'हन्ति' इति क्रियापदम्। का कर्तृ(/)? “त्वत्सङ्कथाऽपि' त्वत्सम्बन्धी संलापोऽपि, त्वद्विषयिणी पूर्वभवसम्बन्धवार्ताऽपीति यावत् । तव सङ्कथा त्वत्सङ्कथा 'तत्पुरुषः'। “हन्ति' निर्नाशयति। कानि कर्मतापन्नानि? 'दुरितानि' पापानि विघ्नान् वा । केषाम्? 'जगतां' लोकानाम् । उक्तं च - "चिरसंचियपावपणा-सणीइ भवसयसहस्समहणीए। चउवीसजिणविणिग्गय, कहाइ वोलंतु मे दिअहा ॥१॥" - आर्या का ७४ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy