________________
॥ श्री भक्तामरस्तोत्रम् ॥
दृष्टान्तमाह-सहस्रकिरणो दूरे आस्ताम् इत्यन्वयः। 'आस्ताम्' इति क्रियापदम्। कः कर्ता? ‘सहस्रकिरणः' सूर्यः। सहस्रं किरणा यस्य स 'बहुव्रीहिः'। कथम्? “दूरे'। प्रभैव पद्माकरेषु जलजानि विकाशभाञ्जि कुरुते इत्यन्वयः। 'कुरुते' इति क्रियापदम्। का कर्ची? 'प्रभा' छाया। 'कुरुते' विधत्ते। कथम्? ‘एव' निश्चयेन। कानि कर्मतापन्नानि? 'जलजानि' पद्मानि। जले जायन्त इति जलजानि 'तत्पुरुषः'। किंभूतानि? 'विकाशभाञ्जि' स्मेराणि। विकाशं भजन्त इति विकाशभाञ्जि तानि 'तत्पुरुषः'। केषु? 'पद्माकरेषु' सरस्सु। पद्मानामाकरो येषु ते पद्माकरास्तेषु ‘बहुव्रीहिः'। यदि सूर्योदयात् पूर्वप्रवर्तिनी प्रभा पद्मविकाशिनी भवति, तदा सूर्यस्य किमुच्यते?, तथा अर्हदणोत्कीर्तनरूपं स्तवनं दूरे आस्तां, जिननामग्रहणसङ्कथैव सर्वदुरितनाशिनी। इति नवमवृत्तार्थः ।।९।।
* * * अथ जिनस्तुतिफलमाह - नात्यद्भुतमित्यादि
व्याख्या - हे 'भुवनभूषण !' हे विश्वमण्डन !! भुवनानां भूषणं भुवनभूषणं तस्य सम्बोधने हे भुवनभूषण ! 'तत्पुरुषः'। हे 'भूतनाथ'! हे भूतप्रभो !! भूतानां नाथो भूतनाथस्तस्य सम्बोधनं हे भूतनाथ ! 'तत्पुरुषः'। अथवा हे 'भुवनभूषणभूत !' भूतशब्द उपमानवाचकः हे विश्वमण्डनसमान !। भुवनस्य भूषणं भुवनभूषणं 'तत्पुरुषः', भुवनभूषणमिव भुवनभूषणभूतस्तस्य सम्बोधनं हे भुवनभूषणभूत ! 'तत्पुरुषः'। हे 'नाथ'! हे प्रभो !। भूतैर्गुणैर्भवन्तमभिष्टवन्तो भवतस्तुल्याः भवन्तीत्यन्वयः कर्बोक्तिः। भवन्ति' इति क्रियापदम्। के कर्तारः? 'जनाः'। 'भवन्ति' स्युः। जनाः किं कुर्वन्तः? 'अभिष्टवन्तः' स्तुवन्तः। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। जनाः किंलक्षणाः? 'तुल्याः' समानाः। कस्य? 'भवतः' तव। कैः? ‘गुणैः' ज्ञानादिभिर्गुणैः। किंभूतैः? 'भूतैः'
नका ७५ |