________________
॥श्री भक्तामरस्तोत्रम् ।।
दण्डान्वय :- कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे युद्धे विजितदुर्जयजेयपक्षाः त्वत्पादपङ्कजवनायिणः जयम् लभन्ते।
हे जिनेन्द्र! पुरुषा युद्धे जयं लभन्ते इत्यन्वयः। ‘लभन्ते' इति क्रियापदम्। के कर्तारः? 'पुरुषाः' इत्यध्याहारः। कं कर्मतापनं? “जयं' सर्वतोऽभ्युदयम्। कीदृशाः पुरुषाः? 'त्वत्पादपङ्कजवनाश्रयिण ः' तव चरणस्वरूपकमलवनाश्र-यभाजः। कमलवनाश्रयात् अत्यन्तसौकुमार्यख्यापनेन लीलयैव जयप्राप्तिरित्यतिशयालङ्कारः। पुनः कीदृशाः पुरुषाः? 'विजितदुर्जयजेयपक्षाः' पराभूतदुर्द्धरवैरिसमूहाः। कस्मिन्? 'युद्ध'। कीदृशे? 'कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे'। अस्यार्थः समासादेव, स चैवम्-कुन्ता-भल्लास्तेषां अग्राणि तैर्भिन्ना - विदारिता ये गजास्तेषां शोणितानि-रुधिराणि तान्येव वारीणिजलानि तेषां वाहाः - प्रवाहास्तेषु वेगेन अवतार-उत्तरणं तस्मात् तरणं-प्लवनं तैरातुरा-व्याकुला ये योधाः-सुभटास्तैर्भीमं तस्मिन्, तथा जेतुं योग्या जेयास्तेषां पक्षा जेयपक्षाः, दुर् - दुःखेन जीयन्ते इति दुर्जयास्ते च ते जेयपक्षाश्च दुर्जयजेयपक्षाः, विजिता दुर्जयजेयपक्षा यैस्ते विजितदुर्जयजेयपक्षाः। अत्र 'क्षय्यजय्यौ' (अ. ४, पा. ३, सू. ९०) इति हैमसूत्रात् जय्य इति स्यादेवं न चिन्त्यं , जेतुं शक्यो जय्यः शत्रुरिति शक्यार्थविषयत्वात् तस्य, अत्र तु जेतुं अशक्यानामपि पक्षाणां विजयस्य वाच्यत्वात् अत एव दुर्जय इति विशेषणं युक्तमिति न तथा ।। ____ अथ समासा :- तव पादौ त्वत्पादौ, पङ्काज्जायन्त इति पङ्कजानि, तेषां वनं-पङ्कजवनं, त्वत्पादावेव पङ्कजवनं त्वत्पादपङ्कजवनं, तत् आश्रयन्ते इत्येवंशीलाः त्वत्पादपङ्कजवनाश्रयिणः।। इति काव्यार्थः।। ३९ ।।
અર્થ - ભાલાના અગ્રભાગવડે ભેદાયેલા હાથીના રૂધિરરૂપી જળપ્રવાહમાં શીધ્રપણે પ્રવેશ કરીને તરવામાં આતુર થયેલા યોદ્ધાઓથી ભયંકર એવા યુદ્ધને વિષે લડાઇમાં ન જીતી શકાય તેવા શત્રુઓને જીતી લઇને પણ આપના ચરણકમળના વનનો આશ્રય કરનારા મનુષ્યો જીત જ મેળવે છે.
nd
* का ५९ |