________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
दण्डान्वय :- आजौ वल्गत्तुरङ्गगजगर्जितभीमनादम् बलवताम् अपि भूपतीनाम् बलम् त्वत्कीर्तनात् उद्यद्दिवाकरमयूखशिखापविद्धम् तम इव आशु भिदाम् उपैति ।
हे जिनेन्द्र ! आजौ-सङ्ग्रामे त्वत्कीर्तनात् भूपतीनां बलं आशु-शीघ्रं भिदां उपैतीत्यन्वयः। 'उपैति' प्राप्नोति इति क्रियापदम्। किं कर्तृ? 'बलं' सैन्यम्। कां कर्मतापन्नाम्? “भिदां' विनाशम्। (कथम्?) 'आशु' शीघ्रम्। बलं केषाम्? 'भूपतीनां' राज्ञाम्। कस्मात्? 'त्वत्कीर्तनात्' तव स्तवनात्। कस्मिन्? 'आजौ' सङ्ग्रामे। कथंभूतानां भूपतीनाम्? 'बलवतां' ओजस्विनाम्। कीदृशं बलम्? 'वल्गत्तुरङ्गगजगर्जितभीमनादं' वल्गन्तो-मिलन्तो ये तुरङ्ग-अश्वा गजाहस्तिनस्तेषां गर्जितानि तैीमो-रौद्रो नादः-शब्दो यत्र तत्। इवोपमीयते। किमिव? तम इव। यथा तमः- अन्धकारं भिदां उपैति। किं विशिष्टं तमः? 'उद्यद्दिवाकरमयूखशिखापविद्धं' उद्यन्-उदयं प्राप्नुवन् यः दिवाकरः-सूर्यस्तस्य मयूखा :-किरणाः तेषां शिखा-अग्राणि ताभिरपविद्धं-पराहतम्।।
अथ समासा :- तुरङ्गाश्च गजाश्च तुरङ्गगजं, सेनाङ्गत्वादेकवद्भावः, वल्गच्च तत् तुरङ्गगजं च वल्गत्तुरङ्गगजं, तस्य गर्जितानि वल्गत्तुरङ्गगजगर्जितानि, तैः भीमो नादो यत्र तत्। बलं येषां ते बलवन्तस्तेषाम्। भुवः पतयो भूपतयस्तेषाम्। उद्यंश्चासौ दिवाकरश्च उद्यद्दिवाकरः, तस्य मयूखा उद्यद्दिवाकरमयूखाः, तेषां शिखास्ताभिः अपविद्धं उद्यद्दिवाकरमयूखशिखापविद्धम्। तव कीर्तनं त्वत्कीर्तनं तस्मात् ।। इति काव्यार्थः ।। ३८ ॥
अर्थ :- युद्धने विषे घोरता घोमोवाणु, थीमोना २५ (तथा) યોદ્ધાઓના ભયંકર નાદવાળું, બળવાન એવા પણ રાજાઓનું સૈન્ય, આપનું નામ ગ્રહણ કરવાથી જ ઉદય પામતા સૂર્યના કિરણોના અગ્રભાગ વડે વીંધાયેલા અંધકારની જેમ શીધ્ર પણે નાશ પામે છે. किञ्च - कुन्ताग्रभिन्नगजशोणितवारिवाह
वेगावतारतरणातुरयोधभीमे। युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥
का ५८ |