________________
॥श्री भक्तामरस्तोत्रम् ॥
तदेव नागदमनी-सर्पदमनकारिणी यस्य जनस्य हृदि हृदये वर्तते स) फणिनं क्रमयुगेन आक्रामति-पराभवतीत्यन्वयः। 'आक्रामति' इति क्रियापदम्। कः कर्ता? ‘सः' पुरुषः। कं कर्मतापन्नम्? ‘फणिनं' सर्पम्। फणिनमित्युक्त्या अतिभीषणता सूचिता। तामेवाह - ‘रक्तेक्षणं' आरक्तलोचनम्। पुनः किंविशिष्टम्? ‘समदकोकिलकण्ठनीलं' मदेन-स्मयेन युक्तो यः कोकिलः-पिकस्तस्य कण्ठवन्नीलं-श्यामम्। पुनः किंविशिष्टम्? 'क्रोधोद्धतं' कोपदुर्धरम्। पुनः किं.? 'उत्फणं' उत्-ऊर्ध्वं फणाधारिणम्। किं कुर्वन्तम्? 'आपतन्तं' शीघ्रमागच्छन्तम्। केन आक्रामति? 'क्रमयुगेन' पदयुगलेन । भयं विना पद्भ्यां संघट्टते इत्यर्थः। कीदृशः स पुरुषः? 'निरस्तशङ्कः' सर्वथा भयवर्जितः।।।
अथ समासा :- रक्ते ईक्षणे यस्य स तम्। मदेन सह वर्तते यः स समदः, स चासौ कोकिलश्च समदकोकिलः, तस्य कण्ठस्तद्वन्नीलः समदकोकिलकण्ठनीलः तम्। क्रोधेन उद्धतः क्रोधोद्धतः तम्। फणा अस्यास्तीति फणी तम्। उत्-ऊर्ध्वं फणा यस्य स उत्फणः तम्। क्रमयोर्युगं क्रमयुगं तेन। निरस्ता शङ्का यस्य स निरस्तशङ्कः । तव नाम त्वन्नाम, नागा दम्यन्ते यया सा नागदमनी, त्वन्नामैव नागदमनी त्वन्नामनागदमनी।। इति काव्यार्थः ।। ३७ ।।
અર્થ - જે પુરુષના હૃદયને વિષે આપના નામરૂપી નાગદમની રહેલી છે તે પુરુષ, રક્ત નેત્રવાળા મદોન્મત્ત કોયલના કંઠ જેવા શ્યામવર્ણવાળા ક્રોધથી ઉદ્ધત થયેલા ઊંચી ફણાવાળા (અને) સન્મુખ આવતા એવા સર્પને શંકારહિત થયેલો પોતાના બન્ને પગ વડે આક્રમણ કરે (સ્પર્શે) છે.
अथात्यन्तघोरत्त्वेन यदभयना कालावोगाट -
भयनाशं काव्यद्वयेनाह - वल्गत्तुरङ्गगजगर्जितभीमनाद
माजौ बलं बलवतामपि भपतीनाम। उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥३८॥
का ५७