________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
मुक्तार्थं तथापि सम्मुखपदसन्निधानात् आपतन्तं-शीघ्रमागच्छन्तमित्येवं व्याख्येयम्, अन्यथा पौनरुक्तत्वात्। पुनः कीदृशम्? 'अशेष' सर्वम् ।। ____ अथ समासा :- कल्पश्चासौ अन्तश्च कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य पवनेन उद्धतः स चासौ वह्निश्च तस्य कल्प-आचारो यस्य स तथा तम्। दावश्चासौ अनलश्च दावानलस्तम् (तत्)। उर्ध्वं स्फुलिङ्गा यस्य स तम्। जिघत्सुमित्यत्र अत्तुमिच्छति-जिघत्सति इति जिघत्सुस्तम्। अद्धातो: 'घस्लृसनातनीघञ्चलि' (अ. ४, पा. ४, सू. १७) इति सिद्धहैमसूत्रात् घस् आदेशो, 'घसृ अदने' धातुर्वा। तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं, तच्च तज्जलमिव त्वन्नामकीर्तनजलम्। शमयतीत्यत्र 'शमोऽदर्शने' (अ. ४, पा. २, सू. २८) हैमसूत्रात् ह्रस्वः । न विद्यते शेषं यस्य स अशेषस्तम् ।। इति काव्यार्थः।। ३६ ।।
અર્થ - પ્રલયકાળના વાયુવડે ઉદ્ધત થયેલા, અનિજેવા જાજ્વલ્યમાન ઊંચી વાળાવાળા, ઉડતા તણખાવાળા, આખા જગતને જાણે ગળી જવાની ઈચ્છાવાળા, સન્મુખ આવતા એવા, (તથા વજાગ્નિ - વીજળી વગેરે) સમસ્ત પ્રકારના દાવાનળને આપના નામરૂપી કીર્તન જળ શમાવે છે.
* * * अथ सर्पभयनाशमाह - रक्तक्षणं समदकोकिलकण्ठनीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क
स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ दण्डान्वयः- यस्य पुंसः हृदि त्वन्नामनागदमनी रक्तक्षणम् समदकोकिलकण्ठनीलम् क्रोधोद्धतम् उत्फणम् आपतन्तम् फणिनम् निरस्तशङ्कः क्रमयुगेन आक्रामति।
हे मुनिनाथ ! जिनेन्द्र ! यस्य पुंसः हृदि त्वन्नामनागदमनी भवतीत्यन्वयः। 'भवति' इति क्रियापदम्। का कर्ची? 'त्वनामनागदमनी'। भवतो यदभि (धानं
मा ५६ |
-