________________
॥श्री भक्तामरस्तोत्रम् ॥
માટે તૈયાર કરેલા પગવાળો એવો સિંહ પણ પોતાની એક જ) ફાળમાં આવે તેવા આપના ચરણાચલાશ્રિત (સેવક) ને મારી શકતો નથી.
अथ वह्निभयनाशमाह - कल्पान्तकालपवनोद्धतवह्निकल्पं
दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम्। विश्वं जिघत्सुमिव सम्मुखमापतन्तं
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ दण्डान्वयः- कल्पान्तकालपवनोद्धतवह्निकल्पम् ज्वलितम् उज्ज्वलम् उत्स्फुलिङ्गम् विश्वम् जिघत्सुम् इव सन्मुखम् आपतन्तम् अशेषम् दावानलम् त्वन्नामकीर्तनजलम् शमयति ।
हे जिनेन्द्र ! त्वन्नामकीर्तनजलं दावानलं शमयतीत्यन्वयः। शमयति' विध्यापयति इति क्रियापदम्। किं कर्तृ? 'त्वन्नामकीर्तनजलं' भवदभिधानस्य यत् कीर्तनंस्तवनं तल्लक्षणं जलं-पानीयम्। कं कर्मतापन्नम्? 'दावानलम्'। 'दवो दावो वनवह्निः (अभि. का. ४, श्लो. १६७) इति हेमसूरयः, वनपदसन्निधानादुत्कदत्यं ध्वन्यते, तदेव स्पष्टयति-कीदृशं दावानलं? 'कल्पान्तकालपवनोद्धतवह्निकल्पं' कल्पान्तकालस्य यः पवनो-वायुस्तेन उद्धतो-दुर्वारो यः वह्निः-अग्निस्तस्य कल्पः-आचारो यस्य, तत्तुल्यमित्यर्थः, नात्र ईषन्न्यूनार्थे कल्पप्रत्ययः, तथा सती उत्कटताभङ्गात्। पुनः कीदृशं दावानलम्? 'ज्वलितं' प्रदीप्यमानंप्रवर्द्धमानावस्थं, न प्रशाम्यन्तमिति भावः। पुनः कीदृशम्? 'उज्ज्वलं' विकासितं-प्रसरमाप्तम्। 'उज्ज्वलस्तु विकाशिनि, शृङ्गारे विशदे दीप्ते' इत्यनेकार्थः (श्लो. १२२६-१२२७), 'उज्ज्वलं रक्तम्' इति कौशल्याम्। पुनः किंविशिष्टरूपम्? 'उत्स्फुलिङ्गं' वह्निकणैः प्रबलम्। इवोत्प्रेक्षते। पुनः कीदृशम्? विश्वं जिघत्सुमिव' जगद्भक्षितुमुत्सुकमिव। किं कुर्वन्तम्? सम्मुखं यथा (स्यात्) तथा आपतन्तं-आगच्छन्तम्, अत्र यद्यपि आपतन्तमित्यनेन सम्मुखत्व
का ५५