SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। अथ सिंहभयमाह - भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त मुक्ताफलप्रकरभूषितभूमिभागः। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते॥३५॥ दण्डान्वय:- भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकर- भूषितभूमिभागः बद्धक्रमः हरिणाधिपः अपि क्रमगतम् ते क्रमयुगाचलसंश्रितम् न आक्रामति। हे जिनेन्द्र ! हरिणाधिपोऽपि ते-तव क्रमयुगाचलसंश्रितं पुरुषं न आक्रामतिन पराभवतीत्यन्वयः। 'आक्रामति' इति क्रियापदम्। कः कर्ता? 'हरिणाधिपः' सिंहोऽपीति, उपलक्षणाद् व्याघ्रादिहिंस्रजीवः। कं कर्मतापन्नम्? ते-तव 'क्रमयुगाचलसंश्रितं' चरणद्वयरूपपर्वतमाश्रितं, पुरुषमिति शेषः। किंभूतम्? ‘क्रमगतं' सिंहस्य चरणाग्रे प्राप्तम्। कथंभूतः हरिणाधिपः? 'बद्धक्रमः' शृङ्खलितपादः। पुनः किंविशिष्टो हरिणाधिपः? 'भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तः', (अस्य) अर्थः समासादेव, ( स चैवं) भिन्न-विदारितः स चासौ इभो-हस्ती भिन्नेभः, तस्य कुम्भौ भिन्नेभकुम्भौ, फलानीव फलानि, मुक्ताश्च तानि फलानि च मुक्ताफलानि, शोणितेन-रूधिरेण अक्तानि-खरण्टितानिशोणिताक्तानि, तानि च तानि मुक्ताफलानि च शोणिताक्तमुक्ताफलानि, उज्ज्वलानि-शुक्लानि च तानि शोणिताक्तमुक्ताफलानि च उज्ज्वलशोणिताक्तमुक्ताफलानि, भिन्नेभकुम्भेभ्यो गलन्ति च तानि उज्ज्वलशोणिताक्तमुक्ताफलानि च भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलानि, तेषां प्रकर:समूहस्तेन भूषितः-शोभावान् कृतः भूमे गो येन सः। बद्धाः क्रमा यस्य स बद्धक्रमः। (क्रमे गतः) क्रमगतस्तम्। हरिणानां अधिपः हरिणाधिपः। क्रमयोयुगं क्रमयुगं, अचल इव अचलः, क्रमयुगं स चासौ अचलश्च क्रमयुगाचलः, तं संश्रितः क्रमयुगाचलसंश्रितः तं तथा ।। इति काव्यार्थ: ।।३५।। અર્થ - ભેટેલા હાથીના કુંભસ્થળથી પડતા, ઉજ્જવળ અને રુધિરથી ખરડાયેલા મોતીના સમૂહ વડે પૃથ્વીના ભાગને શોભાવનાર (તથા) ફાળ ભરવા ना ५४
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy