________________
॥श्री भक्तामरस्तोत्रम् ।।
अथ भगवतः सर्वभयनाशकत्वं वर्णयन्नष्टमहाभयनाशकत्वमाह - श्च्योतन्मदाविलविलोलकपोलमूल
मत्तभ्रमभ्रमरनादविवृद्धकोपम्। ऐरावताभमिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ दण्डान्वयः- श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध- कोपम् ऐरावताभम् उद्धतम् आपतन्तम् इभम् दृष्ट्वा भवदाश्रितानाम् भयं नो भवति ।
हे जिनेन्द्र ! भवदाश्रितानां लोकानां भयं नो भवतीत्यन्वयः। 'भवति' इति क्रियापदम्। किं कर्तृ ? 'भयं' भीतिः। केषाम्? 'भवदाश्रितानां' भवन्तं-त्वां आश्रिताः-स्वामित्वेन प्रपन्नास्तेषां भीतिरपि न, तर्हि कुतो दुःखमिति भावः। किं कृत्वा? 'दृष्ट्वा' विलोक्य। कं कर्मतापन्नम्? 'इभं' हस्तिनम्। किंविशिष्टं इभम्? 'ऐरावताभं' इन्द्रगजसदृशम्, तथा उद्धतं' अविनीतम्। किं कुर्वन्तम्? 'आपतन्तं' सम्मुखमागच्छन्तम्। पुनः किंभूतम्? 'श्च्योतन्मदाविलविलोलक पोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपं' अस्यार्थः समासादेव, स चैवम्-श्च्योतन्क्षरन् स चासौ मदो-दानं श्च्योतन्मदः, तेन आविला-व्याप्ताः श्च्योतन्मदाविलाः, कपोलयोः मूले कपोलमूले, विलोले च ते कपोलमूले च विलोलकपोलमूले, भ्रमन्तः-चलन्तश्च ते भ्रमरा-भ्रमभ्रमराः, विलोलकपोलमूलयोः मत्तभ्रमभ्रमरा विलोलकपोलमूलमत्तभ्रमद्भमराः, श्च्योतन्मदाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराः श्च्योतन्मदा., तेषां नादः-शब्दस्तेन विवृद्धः पुष्टः कोपो-मन्युर्यस्य स तथा तम्। अनेनात्यन्तव्याकुलत्वेन दुर्वारत्वमाह। ऐरावतस्य आभेव आभा यस्य स तथा तं, 'उष्ट्रमुखा०' (सिद्ध. अ.३,पा.१,सू.२३) इत्यादिना समासः। भवन्तं आश्रिताः भवदाश्रिताः तेषाम्।। इति काव्यार्थः।।३४||
અર્થ:- ઝરતા મદ વડે વ્યાપ્ત અને ચપળ તથા ગંડસ્થળને વિષે મદોન્મત્તપણે ભમતા એવા ભમરાઓના ઝંકાર વડે વૃદ્ધિ પામેલા કોપ વાળા (તથા) ઐરાવત હાથી જેવા મોટા, (તથા) ઉદ્ધત અને) સન્મુખ આવતા હાથીને જોઇને આપના આશ્રિતજનોને ભય થતો નથી.
ना ५३