SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। हे जिनेन्द्र ! इत्थं - अनेन प्रकारेण यथा तव विभूतिरभूदित्यन्वयः। 'अभूत्' इति क्रियापदम्। का की? 'विभूतिः' समृद्धिः। कस्य? 'तव' कथम्? 'इत्थं' पूर्वोक्तप्रकारेण। कस्मिन्? 'धर्मोपदेशनविधौ' व्याख्यानक्रियायाम्। तथा-तेन प्रकारेण अपरस्य कस्यापि देवस्य न अभूत्, तेन बाह्ययोगमहिम्नाऽपि निश्चीयते यत् त्वमेव परमः पुमानिति, सिंहावलोकनन्यायेन प्रागुक्तं दृढीकृतम्, तेन "देवागमनभोयान-चामरादिविभूतयः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥॥" इति समन्तभद्रोदन्तमष्टसहस्रीसूत्रं प्रत्याहतं, प्रातिहार्यातिशयप्रमुखबाह्ययोगविभूतेर्भगवद्रूपादिसंसर्गेण वर्णनात् तथारूपा हि विभूतिर्न देवाधिदेवव्यभिचारिणी, मायाविलक्षैरपि भगवद्रूपस्य साम्यं कोट्यंशेनापि न कर्तुं शक्यमित्यास्तां विस्तरः, तथा च सुष्ठूक्तं (वीतरागस्तोत्रे प्र.४ श्लो.७) हेमसूरिपादैः- 'बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परै'रिति। अत्र दृष्टान्तमाह दिनकृतः- सूर्यस्य यादृक् प्रभा-कान्तिर्भवति तादृक्-तद्रूपा ग्रहगणस्य प्रभा कुतः कारणात् संभवति? नैव संभवतीत्यर्थः। कथंभूतस्य ग्रहगणस्य? “विकाशिनोऽपि' प्रकाशवतोऽपि। कथंभूता दिनकृतः प्रभा? 'प्रहतान्धकारा' निरस्ततिमिरा ।। अथ समासा :- जिनेन्द्र पदे प्राग्वत् । धर्मस्य उपदेशनं धर्मोपदेशनं, तस्य विधिः धर्मोपदेशनविधिस्तस्मिन् । तथा दिनं करोतीति दिनकृत् तस्य । प्रहतं अन्धकारं यया सा प्रहतान्धकारा निरस्ततिमिरा । ग्रहाणां-नक्षत्रादीनां गणो ग्रहगणस्तस्य। विकाशोऽस्यास्तीति विकाशी, तस्य विकाशिनः॥ इति काव्यार्थः ॥३३।। અર્થ - હે જિનેન્દ્ર આ પ્રમાણે ધર્મના ઉપદેશની વિધિમાં જેવી આપની અતિશય રૂ૫ સમૃદ્ધિ હતી, તેવી બીજાને (હરિહરાદિક દેવને) ન હોતી (કારણ કે) અંધકારને હણનારા સૂર્યની કાન્તિ જેવી છે તેવી કાન્તિ વિકસ્વર એવા પણ डोना समूडनी यांची डोय ? (न. ४ छोय.) का ५२ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy