SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ॥ श्री भक्तामरस्तोत्रम् ।। कान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ' एतदर्थः समासादेवेति, स चैवम्उद्गता निद्रा येषां तानि उन्निद्राणि-विकस्वराणि, सुवर्णस्य नवानि-नूतनानि नव सङ्ख्याकानि वा यानि पङ्कजानि-कमलानि हेमनवपङ्कजानि, उन्निद्राणि च तानि हेमनवपङ्कजानि च उन्निद्रहेमनवपङ्कजानि, तेषां पुञ्जः-समूहस्तस्य प्रभा तया पर्युल्लसन्तो - वृद्धि गच्छन्तो ये नखानां मयूखाः - कराः उनिद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखाः, तेषां शिखा - अग्राणि ताभिः अभिरामौ - मनोहरौ उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ । मयूखशब्दः कवर्गीयोपान्त्यः। जिनेषु इन्द्रो जिनेन्द्रः, तत्सम्बोधने हे जिनेन्द्र !। अत्र पूर्वार्द्ध समासभूयस्त्वाद् गौडीयरीतिः, परार्द्ध न तथेति वैदर्भी रीतिः, न च रीतिभ्रंशदोषः, वस्तुतः पूर्वार्द्धस्य भिन्नत्वादेव, अत एव सन्धिकार्यमपि न, पादस्य तु रीतिभेदे न दुष्टमिति। अत्र देवकृतः अर्हत्पदस्थाने देवाः स्वर्णमयानि नव पद्मानि स्थापयन्तीत्यतिशयः सूचितः, तदुपलक्षणात् सर्वेऽपि चतुस्त्रिंशदतिशया ज्ञेयाः ।। इति काव्यार्थः ।।३२।। અર્થ - હે જિનેન્દ્ર !વિકસ્વર સુવર્ણના નવીન કમળોના સમૂહની કાન્તિવાળા, (તથા) ચોતરફ પ્રસરતા નખના કિરણોની શ્રેણિવડે મનોહર એવા આપના બે ચરણ જ્યાં ધારણ કરાય છે ત્યાં દેવતાઓ કમળોને રચે છે. अथोपसंजिहीर्षुराह - इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा _तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥३३॥ दण्डान्वयः- हे जिनेन्द्र ! इत्थम् धर्मोपदेशनविधौ यथा तव विभूतिः अभूत्, तथा परस्य न, प्रहतान्धकारा दिनकृतः प्रभा यादृक् तादृक् विकाशिनः अपि ग्रहगणस्य कुतः। ना ५१ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy