SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ ___अथ समासा :- छत्राणां त्रयं छत्रत्रयम्। शशाङ्क इव शशाङ्कस्तच्च तत् कान्तं शशाङ्ककान्तम्। भानोः कराः भानुकराः, तेषां प्रतापो भानुकरप्रतापः, स्थगितो भानुकरप्रतापो येन तत् तथा। मुक्ता एव फलानि मुक्ताफलानि, तेषां प्रकरः-जालं तेन विवृद्धा शोभा यस्य तत् तथा। त्रयाणां जगतां समाहारस्त्रिजगत् तस्य। परमश्चासावीश्वरः (च) परमेश्वरः, तद्भावः परमेश्वरत्वम् ।। इति काव्यार्थ:।।३१।। અર્થ - ચન્દ્ર જેવું મનોહર, ઉંચે આપના મસ્તક ઉપર રહેલું, સૂર્યના કિરણોના પ્રતાપને ઢાંકનારું, મોતીની સમૂહની રચનાથી વૃદ્ધિ પામેલી શોભાવાળું (તથા) ત્રણ જગતના પરમેશ્વરપણાને પ્રસિદ્ધ કરતું એવું આપનું છત્રત્રય શોભે છે. अथ चत्वारि प्रातिहार्याण्युक्त्वा अतिशयसम्पदं संक्षेपेणाह - उन्निद्रहेमनवपङ्कजपुञ्जकान्ति . पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ दण्डान्वयः- हे जिनेन्द्र ! उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ तव पादौ यत्र पदानि धत्तः तत्र विबुधाः पद्यानि परिकल्पयन्ति । हे जिनेन्द्र ! - जिननायक ! तव पादौ-चरणौ यत्र स्थले पदानि धत्तः इति सम्बन्धः। 'धत्तः' इति क्रियापदम्। कौ कर्तारौ? “पादौ'। कानि कर्मतापन्नानि? ‘पदानि' भूमौ आकारन्यासरूपाणि। ___ यत्तदोर्नित्याभिसम्बन्धात् तत्र स्थाने विबुधाः-देवाः पद्मानि-कमलानि परिकल्पयन्ति रचयन्ति - विकुर्वन्ति। 'परिकल्पयन्ति' इति क्रियापदम्। के कर्तारः? 'विबुधाः'। अवसरज्ञताव्यञ्जकमेतत्। कानि कर्मतापन्नानि? 'पद्मानि'। कुत्र? 'तत्र' यत्र तव पादौ पदानि धत्तः। कथंभूतौ पादौ? उन्निद्रहेमनवपङ्कजपुञ्ज ना ५० |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy