________________
॥ श्री भक्तामरस्तोत्रम् ॥
चामराणि कुन्दावदातचलचामराणि, तैश्चार्वी शोभा यस्य तत्। कलधौतमिव कलधौतं, तच्च तत् कान्तं च कलधौतकान्तम्। उद्यश्चासौ शशाङ्कश्च उद्यच्छशाङ्कस्तद्वत् शुचयः उद्यच्छशाङ्कशुचयः, निर्झराणां वारीणि निर्झरवारीणि, तेषां धाराः (निर्झर.), उद्यच्छशाङ्कशुचयो निर्झरवारिधारा यत्र तत् तथा। सुराणां गिरिः सुरगिरिस्तस्य। शातकुम्भस्य विकारः शातकौम्भम् ।। इति काव्यार्थः ||३०॥
અર્થ - મોગરાના પુષ્પ જેવા ઉજ્જવળ (અને) વીંઝાતા બે ચામરો વડે મનોહર શોભાવાળું સુવર્ણ જેવું સુંદર આપનું શરીર, ઉદય પામતા ચન્દ્ર જેવા ઉજ્જવળ ઝરણાના જળની બે ધારાવાળું સુવર્ણમય મેરુગિરિનું ઊંચુ શિખર જેમ શોભે તેમ શોભે છે.
अथ छत्रस्तवनमाह - छत्रत्रयं तव विभाति शशाङ्ककान्त
मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ दण्डान्वय:- शशाङ्ककान्तम् उच्चैः स्थितम् स्थगितभानुकरप्रतापम् मुक्ताफलप्रकरजालविवृद्धशोभम् त्रिजगतः परमेश्वरत्वम् प्रख्यापयत् तव छत्रत्रयं विभाति ।
हे मुनीश ! तव छत्रत्रयं विभाति-शोभते इत्यन्वयः। “विभाति' इति क्रियापदम्। किं कर्तृ? 'छत्रत्रयम्' । किंरूपम्? 'उच्चैः' उपरि ‘स्थितम्। कस्य? 'तव'। किंविशिष्टं छत्रत्रयम्? 'शशाङ्ककान्तं' चन्द्रवन्मनोहरम् । पुनः किंरूपं छत्रत्रयम्? 'स्थगितभानुकरप्रतापं' आच्छादितसूर्यकान्तितेजस्कम्। पुनः किं.? 'मुक्ताफलप्रकरजालविवृद्धशोभं' मौक्तिकसमूहस्य जालं - संदर्भविशेषस्तेन अतिशयितशोभाधरम् । अत्र छत्राणां त्रिसङ्ख्यायामुत्प्रेक्षामाह - किं छत्रत्रयम्? 'त्रिजगतः परमेश्वरत्वं' उत्कृष्टनाथत्वं 'प्रख्यापयत्' सूचयत्कथयत्, त्रित्वादिति शेषः, भगवान् त्रयाणां जगतां स्वामी अतस्त्रीणि छत्राणि वर्तन्ते इति भावः।।
ना ४९ |
-