________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
-
वितानं यस्य तत्। उदयत्यत्र इत्युदयः, स चासौ अद्रिः उदयाद्रिः, तुङ्गश्चासौ उदयाद्रिश्च तुङ्गोदयाद्रिः, तस्य शिरस्तस्मिन्। सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य।। इति काव्यार्थः।।२९।।
અર્થ - રત્નની કાન્તિના સમૂહથી ચિત્ર-વિચિત્ર એવા સિંહાસન ઉપર સુર્વણ જેવું ઉજ્જવળ આપનું શરીર, આકાશને વિષે દેદીપ્યમાન કિરણોરૂપ લતા મંડપને ફેલાવનારું (તથા) ઉંચા ઉદયાચલપર્વતના શિખર ઉપર રહેલું સૂર્યનું બિંબ જેમ શોભે તેમ શોભે છે.
अथ चामरवर्णनमाह - कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ दण्डान्वयः- कुन्दावदातचलचामरचारुशोभम् कलधौतकान्तम् तव वपुः उद्यच्छशांकशुचिनिर्झरवारिधारम् शातकौम्भम् सुरगिरेः उच्चैःतटम् इव विभ्राजते।
हे मुनीश ! तव वपुर्विभ्राजते इत्यन्वयः। योजना प्राग्वत्। किंरूपं वपुः? 'कुन्दावदातचलचामरचारुशोभं' कुन्दपुष्पवदुज्ज्वलचलाचलवालव्यजनैर्विशिष्टलक्ष्मीधरम्। पुनः किंरूपम्? 'कलधौतकान्तं' स्वर्णवन्मनोहरम्। किमिव? "सुरगिरेः उच्चैस्तटमिव' मेरुपर्वतस्य उन्नतं शृङ्गमिव। किंरूपं तटम्? 'उद्यच्छशाङ्कशुचिनिर्झरवारिधारं' उदयं प्राप्नुवन् यः शशाङ्कः तद्वत् शुचयः-उज्ज्वला निर्झराणां वारिधारा-जलप्रवाहा यस्मिन् तत्। पुनः किंरूपं तटम्? 'शातकौम्भं' सुवर्णमयम्। चामराणां निर्झरोपमा भगवद्वपुषो मेरुशृङ्गोपमा ।। ____ अथ समासा :- कुन्दस्य पुष्पाणि कुन्दानि, 'लुब् बहुलं पुष्पमूले ' (सिद्ध. अ. ६ पा. २ सू. ५७) इति तद्धितलूप्, कुन्दानीव कुन्दानि, तानि च अवदातानि कुन्दावदातानि, तानि च चलानि कुन्दावदातचलानि, तानि च
ना ४८ लाल