________________
॥श्री भक्तामरस्तोत्रम् ॥
-
અર્થ - ઉંચા અશોકવૃક્ષના આશ્રયે રહેલું અધિક કિરણોવાળ (અને) નિર્મળ એવું આપણું શરીર, સ્પષ્ટ રીતે દેદીપ્યમાન કિરણોવાળું (તથા) અંધકારના સમૂહનો નાશ કરનારું (તથા) વાદળાની પાસે રહેલું સૂર્યનું બિંબ જેમ શોભે તેમ અત્યંત શોભે છે.
* * * अथ अशोकं व्यावर्ण्य सिंहासनं व्यावर्णयन्नाह - सिंहासने मणिमयूखशिखाविचित्रे
विभ्राजते तव वपुः कनकावदातम्। बिम्बं वियद्विलसदंशुलतावितानं
तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ दण्डान्वय:- मणिमयूखशिखाविचित्रे सिंहासने कनकावदातम् तव वपुः वियद्विलसदंशुलतावितानम् तुंगोदयादिशिरसि सहस्ररश्मेः बिम्बम् इव विभ्राजते।
हे मुनीश ! सिंहासने तव वपुर्विभ्राजते इत्यन्वयः। 'विभ्राजते' शोभते इति क्रियापदम्। किं कर्तृ? “वपुः' शरीरम्। कस्य? 'तव'। कस्मिन्? 'सिंहासने' सौवर्णपादपीठे। किंलक्षणे? 'मणिमयूखशिखाविचित्रे' रत्नकिरणा नावणे। किंवि वपुः? 'कनकावदातं' स्वर्णवत् पीतम्। 'अवदातं तु विमले मनोज्ञे सितपीतयो :' इत्यनेकार्थः। इवोपमीयते। किमिव? 'सहस्ररश्मेर्बिम्बं इव', इव-यथा सहस्ररश्मेः-सूर्यस्य बिम्बं-मण्डलं विभ्राजते। कस्मिन्? 'तुङ्गोदयाद्रिशिरसि' उच्चतरपूर्वाचलशिखरे। किंवि. बिम्बम्? — वियद्विलसदंशुलतावितानं' आकाशप्रसरकिरणरूपवल्लिविस्तारम्।।। ___अथ समासा :- सिंहोपलक्षितं आसनं सिंहासनं तस्मिन्। मणीनां मयूखास्तेषां शिखास्ताभिर्विचित्रं मणिमयूखशिखाविचित्रं तस्मिन्। कनकमिव कनकं तच्च तत् अवदातं च कनकावदातम्। 'उपमान सामान्यैः' इति हैम (अ. ३, पा. १, सू. १०१) सूत्रात् समासः। विलसन्तश्च ते अंशवश्च विलसदंशवः, वियति विलसदंशवो वियद्विलसदंशवः, लता इव लताः, वियद्विलसदंशवश्च ता लताश्च वियद्विलसदंशुलता, उपमितसमासः, तासां
ना ४७ |