________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
दण्डान्वयः- उच्चैः अशोकतरुसंश्रितम् उन्मयूखम् अमलम् भवतः रुपम् स्पष्टोल्लसत्किरणम् अस्ततमोवितानम् पयोधरपार्श्ववर्ति रवेः बिम्बम् इव नितान्तम् आभाति।
हे मुनीश ! भवतो रूपं उच्चैः आभाति इत्यन्वयः। 'आभाति' शोभते इति क्रिया.। किं कर्तृ? 'रूपं' शरीराकारः। कस्य? 'भवतः' तव। कथम्? 'उच्चैः' अतिशयेन। किंवि०? 'अशोकतरुसंश्रितं' अशोकनामके वृक्षे सामीप्येन आश्रितम्। पुनः किंवि०? 'उन्मयूखं' प्रबलकिरणम्। पुनः किंवि.? ‘अमलं' स्वेदादिरहितम्। कथम्? 'नितान्तं' निरन्तरम्। अत्र उपमामाहइवोपमीयते ‘रवेर्बिम्बमिव' इव-यथा वेर्बिम्बं आभाति। किंवि बिम्बम्? ‘स्पष्टोल्लसत्किरणं' प्रकटप्रसरत्कान्ति। पुनः किंवि०? 'अस्ततमोवितानं' विध्वस्तान्धकारपटलम्। पुनः किंवि०? “पयोधरपार्श्ववर्ति' मेघसमीपस्थम्। अशोकस्य मेघेन भगवद्रूपस्य सूर्यबिम्बेनोपमा ज्ञेया।।
अथ समासा :- उदञ्चति उच्चैः 'न्युट्यां चकैस् (सिद्ध. उणा. १००३) इति साधु :। न विद्यते शोको यस्मिन् पार्श्वस्थिते इत्यशोकः, सापेक्षकत्वेऽपि गमकत्वात् समासः, अशोकश्चासौ तरुश्च अशोकतरुः, तस्मिन् संश्रितं अशोकतरुसंश्रितम्। उत्-ऊर्ध्वं मूयखा यस्य तत् उन्मयूखम्।
"उत् प्राधान्ये प्रकाशे च, प्राबल्यास्थाख्यशक्तिषु ।
विभागे बन्धने मोक्षे, भावे लाभोर्ध्वकर्मणोः ॥१॥" - अनु. इत्यनेकार्थः। तथा रुपं तुं श्लोकशब्दयो:। ''पशावाकारे सौन्दर्ये, नाणके नाटकादिके" इत्यनेकार्थः। उल्लसन्तश्च ते किरणाश्च उल्लसत्किरणाः, स्पष्टा उल्लसत्किरणा यस्मिन् तत् तथा। तमसां वितानं तमोवितानं, अस्तं तमोवितानं येन तत् तथा।
'वितानं कदके यज्ञे, विस्तारे क्रतुकर्मणि।
तुच्छे मन्दे वृत्तिभेदे, सूत्यावसरयोरपि ॥१॥' - अनु. तथा 'बिम्बं तु प्रतिबिम्बे स्यात्, मण्डले बिम्बिकाफले' इत्यनेकार्थः। पयो धरतीति पयोधरः, तस्य पार्श्वे वर्तते इति पयोधरपार्श्ववर्ति ।। इति काव्यार्थः।।२८।।
ना ४६ |