SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ।। सम्प्रतिपन्नवदित्यनुमाने जन्यत्वोपाधेः परैर्दत्तस्य व्याप्तिविघटनाय पुनरनुमानान्तरमत्र सूचितम्-ऋषभो भगवान् परमः पुमान् सकलज्ञानादिगुणवत्त्वाद् निर्दोषत्वाद् वेति, जन्यत्वमुपाधिः संदिग्ध इति ज्ञेयं, तथा च ऋषभो न परमपुरुषः जन्यत्वादिति प्रत्यनुमानं तुच्छं, विपक्षे बाधकतर्काभावात्, वर्द्धमानो न सर्वज्ञः वक्तृत्वात् रथ्यापुरुषवदित्यनुमानप्रयोगवदित्यन्यत्र विस्तरः।। अथ समासा :- न विद्यते शेषं येषां ते अशेषाः तैः। अवकाशात् निर्गता निरवकाशाः, तेषां भावो निरवकाशता तया। मुनीनां ईशो मुनीशः, तस्यामन्त्रणे हे मुनीश !। विशिष्टा विधाः- प्रकारा येषां ते विविधाः, तेच ते आश्रयाश्च विविधाश्रयाः, उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः, तैर्जातो गर्वो येषां ते तथा तैः। स्वप्नस्य अन्तरं स्वप्नान्तरं तस्मिन्। 'नामप्राकाश्यकुत्सयो : इत्यनेकार्थः। अत्र केचित् स्वप्नस्य भगवति सम्बन्धं विधाय स्वप्ने सत्यपारमैश्वर्यादिभिः अर्थं दूषयन्ति तदसत्, दोषाणामेव पुरुषधर्मारोपात्, अत एव गर्वोल्लासोऽपि संगच्छते, यद्वा छाद्मस्थ्योऽपि त्वं दोषैः- लोकविरुद्धभावैर्न स्पृष्टः, तर्हि सार्वस्यैतत्प्राप्तिः कुत इति व्याख्येयम्। इति काव्यार्थः।।२७।। અર્થ - હે મુનીશ! બીજે ક્યાંય જગ્યા ન મળવાથી તમામ ગુણો વડે આપ જ આશ્રય કરાયા છો ખરેખર! એમાં શું આશ્ચર્ય છે? (કેમકે) પ્રાપ્ત થયેલા જુદા જુદા સ્થાનોથી ઉત્પન્ન થયેલા ગર્વવાળા દોષો વડે આપ સ્વપ્નમાં પણ ક્યારેય જોવાયા જ નથી. अथ निश्चयनयेन स्तुत्वा व्यवहारनयेन स्तोतुं प्रातिहार्याण्याह - उच्चैरशोकतरुसंश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ का ४५ ]
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy