________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
अथ जन्मभाजो गुणदोषसाहचर्यात् कथं परमपुरुषत्वं वृषभजिने भवतीत्याशङ्कां निरस्यन्नाह - को विस्मयोऽत्र यदि नाम गुणैरशेषै -
स्त्वं संश्रितो निरवकाशतया मुनीश!। दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपिन कदाचिदपीक्षितोऽसि ॥२७॥ दण्डान्वयः- हे मुनीश । यदि नाम निरवकाशतया अशेषैः गुणैः त्वम् संश्रितः अत्र कः विस्मयः उपात्तविविधाश्रयजातगर्वैः दोषैः कदाचिद् अपि स्वप्नान्तरे अपि न इक्षितः असि।
हे मुनीश! नभिति कोमलामन्त्रणे, यदि त्वं अशेषैः गुणैः संश्रितःआश्रितः इत्यन्वयः। 'संश्रितः' इति क्रिया०। कैः कर्तृभिः? 'गुणैः' विशुद्धधर्मैः। कः कर्मतापन्नः? 'त्वं' भगवान्। किंविशिष्टै : गुणैः? 'अशेषैः' समस्तैः स्वभावजैः ज्ञानादिभिः विभावजैरौदर्यादिभिः। कया? 'निरवकाशतया' निःस्थानकभावेन, तव तुल्यस्य अन्यस्य अभावात्, स्थानं विना तादृशा गुणाः क्व तिष्ठन्तीति भावः।
हे मुनीश! दोषैः रागद्वेषमोहादिभिः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितः असि इत्यन्वयः। 'असि' इति क्रियापदम्। कः कर्ता? 'त्वम्'। किंविशिष्टः? 'ईक्षितः'। कैः कर्तृभिः? 'दोषैः'। किं० दोषैः? 'उपात्तविविधाश्रयजातगर्वैः' प्राप्तनानास्थानसमुत्पन्नदः। कस्मिन्? स्वप्नान्तरेऽपि' स्वापावस्थायामपि। कथम्? 'कदाचिदपि' कस्मिन्नपि काले। दोषरूपाः पुरुषास्त्वां निद्रायामपि न अपश्यन्नित्यर्थः। द्वौ अपिशब्दौ निर्णये स्तः।
हे मुनीश ! अत्र वार्ताद्वयेऽपि विस्मयः कः स्यात् ? अपि तु न कोऽपि स्यादित्यन्वयः। 'स्यात्' इति क्रियापदम्। कः कर्ता? 'विस्मयः' आश्चर्य, प्रागुक्तलक्षणे वीतरागे त्वयि वार्ताद्वयस्य प्रमाणसिद्धया (स्थित्या) प्रतीतेरिति भावः, ऋषभो भगवान् परमः पुमान् तमोनाशकत्वमृत्युंजयत्वादिगुणयुक्तत्वात्
का ४४ |
-