SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ।। दण्डान्वयः- हे नाथ ! त्रिभुवनार्तिहराय तुभ्यम् नमः क्षितितलामलभूषणाय तुभ्यम् नमः त्रिजगतः परमेश्वराय तुभ्यम् नमः जिन ! भवोदधिशोषणाय तुभ्यम् नमः। हे नाथ ! तुभ्यं नमः। अस्त्विति शेषः। 'अस्तु' इति क्रिया.। किं कर्तृ? 'नमः' प्रणामः। कस्मै? 'तुभ्यं' भवते। नमःशब्दयोगे चतुर्थी। किंलक्षणाय तुभ्यं? 'त्रिभुवनार्तिहराय' त्रिजगतः पीडानिवारकाय, बाह्या-रोगादयः आन्तराःकर्मोद्भवाः पीडास्तासां तव नाम्ना विनाशात्। पुनः हे नाथ ! तुभ्यं नमः। किंविशिष्टाय तुभ्यम्? “क्षितितलामलभूषणाय' भूलोकालङ्करणाय। पुनः हे नाथ! तुभ्यं नमः। किंविशिष्टाय? 'त्रिजगतः परमेश्वराय' त्रैलोक्यनायकाय। पुनः हे जिन! तुभ्यं नमः। कथंभूताय? 'भवोदधिशोषणाय' संसारसागरलाघवकारकाय। एतद्विशेषणचतुष्टयेन अर्हतोऽसाधारणधर्मरूपं लक्षणं निवेदितं, परमताङ्गीकृतदेवेषु तथास्वरूपाभावात्।। ___अथ समासा :- त्रयाणां भुवनानां समाहारः त्रिभुवनं, पात्रादित्वान्न ईप् , त्रिभुवनस्य आर्तिस्त्रिभुवनार्तिस्तां हरतीति त्रिभुवनार्तिहरस्तस्मै। क्षितेस्तलं क्षितितलं, अमलं च तद् भूषणं च अमलभूषणं, क्षितितले अमलभूषणमिव क्षितितलामलभूषणं तस्मै। 'सिंहाद्यैः पूजायाम्' (अ.३,पा.१,सू.८९) इति हैमवचनात् तत्पुरुषः। त्रयाणां जगतां समाहारस्त्रिजगत्, द्विगुः (तस्य)। परमश्चासावीश्वरश्च परमेश्वरस्तस्मै। उदधिरिव उदधिः, भवश्चासौ उदधिश्च भवोदधिः, उपमितिसमासः, 'उपमेयं व्याघाद्यै : ' (अ.३,पा.१,सू.१०२) इति हैमवचनात् । भवोदधेः शोषणं यस्मात् स भवोदधिशोषणः, तस्मै ।। इति काव्यार्थः ।।२६।। અર્થ - હે નાથ ! ત્રણ જગતના જીવોની પીડાને હરનારા આપને નમસ્કાર હો! પૃથ્વીતલના નિર્મળ આભૂષણ એવા આપને નમસ્કાર હો ! ત્રણ જગતના પરમેશ્વર એવા આપને નમસ્કાર હો ! તથા હે જિનેશ્વર ! સંસાર રૂપી સમુદ્રનું શોષણ કરનાર એવા આપને નમસ્કાર હો ! * * * का ४३ वा
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy