________________
॥ श्री मानतुंङ्गसूरिविरचितम् ॥
पण्डितैर्देवैर्वा अर्चिता-सम्मानिता या बुद्धिः -ज्ञानं तस्य (बोधात् -) प्रकाशात्, यथार्थतया बुद्धत्वं त्वयि एव घटते इत्यर्थः ।
हे धीर ! त्वं शंङ्करोऽसि इत्यन्वयः प्राग्वत् । (किंविशिष्टः शंङ्करः ईश्वरः)। कस्मात् ? ‘भुवनत्रयशङ्करत्वात्' जगत्त्रितयसुखकारित्वात्। हे धीर ! त्वं धाताऽसि । कस्मात् ? 'शिवमार्गविधेर्विधानात्' मोक्षमार्गरूपो यो विधि:धर्माचारः तस्य निष्पादनात् । हे भगवन् ! त्वं पुरुषोत्तमः व्यक्तः - प्रकटमेव असि, सर्वपुरुषेषु त्वत्तो नान्यः पुरुषोत्तमः, जगद्वन्द्यत्वेन त्वं पुरुषोत्तमो निश्चीयत एवेति न तत्र हेतोरपेक्षा इति, अनेन शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, सर्वज्ञो बुद्ध इति बौद्धा इत्युपासते, तेऽपि त्वामेव प्रपन्नाः सन्तीति सूचितम् ॥
>
अथ समासा :- विबुधैरर्चिता विबुधार्चिता सा चासौ बुद्धिश्च विबुधार्चितबुद्धिस्तस्य बोधो विबुधार्चितबुद्धिबोधस्तस्मात् । शं- सुखं करोतीति शङ्करः, भुवनानां त्रयं भुवनत्रयं, तस्य शङ्करो भुवनत्रयशङ्करस्तस्य भावः शङ्करत्वं तस्मात् । शिवस्य मार्ग: शिवमार्गः, तस्य विधि ः शिवमार्गविधिस्तस्य । भगो ज्ञानं अस्यास्तीति भगवान्, तस्यामन्त्रणं हे भगवन् ! | पुरुषेषु उत्तमः पुरुषोत्तमः । इति काव्यार्थः ॥ २५ ॥
અર્થ :- હે દેવોથી પૂજાયેલા પ્રભુ ! પદાર્થોમાં બુદ્ધિનો પ્રકાશ કરવાથી આપ જ બુદ્ધ નામના દેવ છો, ત્રણ ભુવનના પ્રાણીઓને સુખકરનાર હોવાથી આપ જ શંકર છો. હે ઘીર ! મોક્ષમાર્ગની વિધિના બતાવવાથી ધાતા આપ જ છો. (તથા) હે ભગવાન ! આપ જ પ્રગટ રીતે પુરુષોત્તમ છો.
***
सर्वदेवस्वरूपत्वं व्याख्याय भगवतो नमस्कारं कुर्वन् निर्णयमुद्घोषयति तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥
४२
-